पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । विद्राणेन्द्राणि किं त्वं द्रविणददयिते पश्य संख्यं स्वसख्याः स्वाहे स्वस्था स्वभर्तर्यमृतभुजि मुघा रोहिणी रोदितीव । लक्ष्मि श्रीवत्सलक्ष्मोरसि वससि पुरेत्यातमाश्वासयन्त्यां स्वर्गस्त्रैणं जयायां जयति हतरिपो१र्ह्रेपितं हैमवत्या ॥ ३३॥ स्वर्गस्त्रैणं स्वर्गस्त्रीसमूहं जयायामित्याश्वासयन्त्यां सत्यां हैमवत्या ह्रेपितं लजितं जयति । कथंभूतं स्वर्गस्त्रैणम् । आर्तम् । कथंभूताया हैमवत्याः । हतरिपोः । इतीति किम् । हे इन्द्राणि, त्वं किं विद्राणा । हे द्रविणददयिते कुबेरपत्नि, स्वसख्याः पार्वत्याः संख्यं युद्धं पश्य । हे स्वाहे अग्निदयिते, त्वं स्वभतर्यग्नौ अमृतभुजि सति स्वस्था भव । महिषे ह्रतेऽधुना सुखेन ब्राह्मणै- हूयते इति भावः। रोहिणी चन्द्रपत्नी मुधा वृथा रोदितीव । असंजातक्षतिरिति भावः । हे लक्ष्मि, श्रीवत्सलक्ष्मोरसि विष्णुवक्षःस्थले पुरा वससि वत्स्यसि । इति सर्व देवस्त्रीणामाश्वासनमाकर्ण्य देवी लज्जितेति भावः ॥ निर्वाणः किं त्वमेको रणशिरसि शिखिञ्शार्ङ्गधन्वापि विध्यं- स्तत्ते धैर्य व यातं जहिहि जलपते दीनतां त्वं न दीनः । शक्तो नो शत्रुभङ्ग्ने भयपिशुन सुनासीर नासीरधूलि- र्धिग्यासि केति जल्पन्रिपुरवधि यया पार्वती पातु सा वः ॥३४॥ इति जल्परिपुर्महिषो ययावधि हतः सा पार्वती वः पातु । इतीति किम् । हे शिखिन् वह्ने, किं त्वमेको रणशिरसि निर्वाणः शान्तः किं तु शार्ङ्गधन्वा विष्णुरपि विध्यञ्शरान्मुञ्चन्निर्बाणो बाणरहितो जातः । श्लेषे वयोरभेदः । हे जलपते वरुण, तत्ते धैर्य क्व यातं क्व गतम् । दीनतां जहिहि त्यज, यतस्त्वं न दीनः दीनो न भवलि, अथ च नदीनामिनः प्रभुर्नदीनः । हे भयपिशुन भयसूचक सुनासीर इन्द्र, नासीरधूलिः सेनामुखोत्थधूलिः शत्रुभङ्गेनो शक्तः, धिक् त्वं क्व यासि । यथा पूर्वं तव सेनामुखोत्थधूलिमात्रमेव विलोक्य शत्रवः पलायन्ते स्म न तथाधुनेति भावः । यत्र यास्यसि तत्रैव हन्यसे । नन्दिन्नानन्ददो मे तब मुरजमृदुः संप्रहारे प्रहारः किं दन्ते रोम्णि रुग्णे व्रजसि गजमुख त्वं वशीभूत एव । १. 'अभृतसृज्रि.