पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८६ काव्यमाला।

अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने तत-
स्तत्रोड्डीय गतो ममेत्यनुनिशं निद्राति नान्तः शुचा ॥ ९४ ॥

आस्तेऽत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो
हंसस्यास्य मनाङ् न धावति मनः श्रीघाम्नि पद्मे क्वचित् ।
सुप्तोऽद्यापि न बुध्यते तदितरस्तावत्प्रतीक्षामहे
वेलामित्युदरप्रिया मधुलिहः सोढुं क्षणं न क्षमाः ॥ ९५ ॥

भेकेन क्वणता सरोषपरुषं यत्कृष्णसार्पनने
दातुं गण्डचपेटमुज्झितभिया हस्तः समुल्लासितः ।
यच्चाधोमुखमक्षिणी विदधता नागेन तत्र स्थितं
तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥ ९६ ॥

मृत्योरास्यमिवाततं धनुरिदं चाशीविषाभाः शराः
शिक्षा सापि जितार्जुनप्रभृतिका सर्वत्र निम्नाकृतिः ।
अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे
व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं निर्मृगम् ॥ ९७ ॥

ग्रावग्रस्तसमस्तचेतनमनोवैदग्ध्यमुग्धो जनः
कः स्पर्धामधिरोहति त्रिभुवने चित्रं त्वया तन्वता ।
भावानां सदसद्विवेककलनाभ्यासेन जीर्णान्तरं
दूरादेव न नाम येन हृदयं वोढुं कृतो दुर्ग्रहः ॥ ९८ ॥

कोऽयं भ्रान्तिप्रकारस्तव पवन पदं लोकपादाहतानां
तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् ।

१. 'शनैः' इति सुभा०. २. 'गते हहेत्यनुदिनम्' इति सुभा०. ३. 'मतिः'

इति सुभा०. ४. "विबुध्यते न तदितः' इति सुभा०. ५. 'उषसि प्रिया' इति सुभा०.६. 'त एव क्षमाः' इति सुभा०. ७. 'कर्णचपेटम्' इति सुभा०. ८. 'पिदधता' इति सुभा०. ९. 'अमी' इति सुभा०. १०, 'जितार्जुना प्रतिभयं सर्वाङ्गनिम्ना गतिः' इति सुभा०. ११. 'पवन घनावस्करस्थानजातम्' इति सुभा०.