पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



अस्थानोद्योगदुःखं जहिहि नहि नभः पङ्गुसंचारयोग्यं
स्वाग्रासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयम् ।
ते देवस्याप्यचिन्त्याः प्रचलितभुवनाभोगहेलावहेला-
मूलोत्खातानुमार्गा गतगिरिगुरवस्तार्क्ष्यपक्षाग्रवाताः ॥ ८९ ॥

चन्द्रेणैव तरङ्गभङ्गिबहुलं संवर्द्यमानाम्भसो
दद्युर्जीवनमेव किं गिरिसरित्स्रोतांसि यद्यम्बुधैः ।
तेष्वेव प्रतिसंविधानविकलं पश्यत्सु साक्षिष्विव
द्राग्दर्पोद्भुरमगतेष्वपि न स क्षीयेत यद्यन्यथा ॥ ९० ॥

किलैकचुलकेन यो मुनिरपारमब्धिं पपौ
सहस्रमपि घस्मरो विकृत एव तेषां पिबेत् ।
स संभवति किंचिदम्बरविकासिधाम्ना विना
सदप्यसदिव स्थितं स्फुरितमन्तरोजस्विनाम् ॥ ९१ ॥

आबाणोऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते
नन्वत्रैव विधुः स्थितो हि विबुधाः संभूय पूर्णाशिषः ।
शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं
दैवादेव गतः स्वकुक्षिभृतये सोऽप्यम्बुधिर्निम्नगाः ॥ ९२ ॥

अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं
स्वपक्षाद्भेतव्यं न तु बहु विपक्षात्प्रभवतः ।
तमस्याक्रान्ताशे कियदिव हि तेजोवयविनः
स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः ॥ ९३ ॥

एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं पाथसो
यो मुक्तामणिरित्यमंस्त स जडः शृण्वन्नकस्मादपि ।

१. 'बहु न तु' इति सुभा०. २. 'कियदपि' इति सुभा०. ३. 'यदस्मादपि' इति सुभा०.