पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८४ काव्यमाला।

व्यालास्ते विदधत्यमी सदसतोश्चूडामणिं मूर्धभि-
र्नौचित्याद्गुणशालिनां क्वचिदपि भ्रंशोऽस्त्यलं चिन्तया ॥ ८३ ॥

अहो क्रौर्यं स्त्रीणां हतरजनि धिक्त्वामतिशठे
मृषा प्रक्रान्तेग्रं तिमिरकबरीविश्लथधृतिः ।
अवक्तव्ये पाते जननयननाथस्य शशिनः
कृतं स्नेहस्यान्तोचितमुदधिमुख्यैर्न तु जडैः ॥ ८४ ॥

अहो गेहेनर्दी दिवसविजिगीषाज्वररुजा
प्रदीपोऽयं स्थाने ग्लपयति मृषामूनवयवान् ।
उदात्तखच्छन्दाक्रमणहृतविश्वस्य तमसः
परिस्पन्दं द्रष्टुं मुखमपि च किं सोढममुना ॥ ८५ ॥

नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं
प्रस्थाने स्खलितस्ववर्मनि विधेरन्यैर्गृहीतः करः ।
लोकश्चायमदृष्टदर्शनवशादृग्वैशसान्मोचितो
युक्तं काष्ठिक लूनवान्यदसि तामाम्रालिमाकालिकीस् ॥ ८६ ॥

वाताहारतया जगद्विषधरैराश्वस्य निःशेषितं
ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः ।
तेऽप्यक्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै-
र्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥ ८७ ॥

ऊढा येन महाधुराः सुविषमे मार्गे सदैकाकिना
सोढो येन कदाचिदेव न निजे गोष्ठेऽन्यशौण्डध्वनिः ।
आसीद्यस्तु गवां गणस्य तिलकं तस्यैव संप्रत्यहो
घिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्धोष्यते ॥ ८८ ॥

१. 'मूढा मप्पीन्' इति सुभा०। २. 'स्खलतः' इति सुभा०. ३. 'दशा दृग्वे-

शसादुद्धतः इति सुभा०. ४. 'तेऽपि कूर-' इति सुभा०.