पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भल्लटशतकम् । १८३

पिण्डप्रसारितमुखेन तिमे किमेत-
द्दृष्टं न बालिश विशद्बडिशं त्वयान्तः ॥ ७८ ॥

पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि
यायाद्यदि प्रणयनेन महानपि स्यात् ।
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं
केनापि दिक्प्रकटिता पुरुषोत्तमेन ॥ ७९ ॥

स्वल्पाशयः स्वकुलशिल्पविकल्पमेव
यः कल्पयन्स्खलति काचवणिक्पिशाचः।
ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न-
निर्यत्नगुम्फनकवैकटिकेर्ष्ययान्तः ॥ ८० ॥

तत्प्रत्यर्थितया वृतोऽनु कृतकः सम्यक्स्वतन्त्रो भया-
त्स्वस्थस्तान्न निपातयेदिति यथाकामं न संतोषितः ।
संशुष्यन्वृषदंश एष कुरुतां मूकः स्थितोऽप्यन्त्र किं
गेहे किं बहुनाधुना गृहपतेश्चौराश्चरन्त्याखवः ॥ ८१ ॥

एवं चेत्सरसि स्वभावमहिमा जाड्यं किमेतादृशं
यस्मादेव निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी ।
मूलं चेच्छुचि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी
किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे ॥ ८२ ॥

ये दिग्ध्वैव कृता विषेण कुसृतिर्येषां कियद्गण्यते
लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति ।

१. 'पिण्डे' इति सुभा०. २. 'गुम्फपटु' इति सुभा०. ३.'तत्प्रत्यस्त्रतया धृत्प्रे न तु कृतः' इति सुभा०. ४. 'संपोषितः' इति सुभा०. ५. 'सरसस्वभाव- परता' इति सुभा०. ६. 'यद्यस्त्येव' इति सुभा०. ७. 'यान्' इति सुभा०