भल्लटशतकम् । १८१
त्रैलोक्याद्भुतमीदृशं तु चरितं शेषस्य येनास्य सा
प्रोत्सृज्येव निवर्तिता विषधरज्ञातेयदुर्वर्णिका ॥ ६४ ॥
लोके समस्त एवैकः श्लाघ्यः कोऽप्येष वासरः ।
जनैर्महत्तया नीतो यो न पूर्वैर्न चापरैः ॥ ६५ ॥
आबद्धकृत्रिमसटाजटिलांसभित्ति-
रारोपितो मृगपतेः पदवीं यदि श्वा ।
मत्तेभकुम्भतटपाटनलम्पटस्य
नादं करिष्यति कथं हरिणाधिपस्य ॥ ६६ ॥
किमिदमुचितं शुद्धेः श्लिष्टं खपक्षसमुन्नतेः
फलपरिणतेर्युक्तं प्राप्तं गुणप्रणयस्य वा ।
क्षणमुपगतः कर्णोपान्तं परस्य पुरःस्थिता-
न्विशिख निपतन्क्रूरं दूरान्नृशंस भिनत्सि यत् ॥ ६७ ॥
अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता
भवत्येषां यस्य क्षणमुपगतानां विषयताम् ।
निरालोके लोके कथमिदमहो चक्षुरधुना
समं जातं सर्वैर्न सममथवान्यैरवयवैः ॥ ६८ ॥
आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते
मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम् ।
खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ ६९ ॥
हेमकार सुधिये नमोऽस्तु ते दुस्तरेषु बहुशः परीक्षितुम् ।
काञ्चनाभरणमश्मना समं यत्त्वयैवमधिरोप्यते तुलाम् ॥ ७० ॥
१. विषधरज्ञानेऽपि' इति सुभा०.२. 'स्पष्टं सपक्ष-' इति सुभा०. ३, 'प्रा
गुणप्रणयस्य ते' इति सुभा०.४. 'निहंसि' इति सुभा०. ५. 'एतत्' इति सुभा०।