पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१८१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

भल्लटशतकम् । १७७


लब्धायां तृषि गोमृगस्य विहगस्यान्यस्य वा कस्यचि-
दृष्ट्या स्याद्भवदीययोपकृतिरप्यास्तां दवीयस्यदः ।
अस्यात्यन्तमहाजलस्य जलदारण्योषरस्यापि किं
जातं पश्य पुनः पुरेव परुषा सैवास्य दग्धा छविः ॥४४॥

संत्यज्य पानाचमनोचितानि तोयान्तराण्यस्य सिसेविषोस्स्वाम् ।
निजैर्न जिह्रेषि जलैर्जनस्य जघन्यकार्यौपयिकैः पयोद ॥४५॥

आस्त्रीशिशु प्रथितयैष पिपासितेभ्यः
संरक्ष्यतेऽम्बुधिरपेयतयैव दूरात् ।
दंष्ट्राकरालमकरालिकरालिताभिः
किं भाययत्यपरमूर्मिपरम्पराभिः ॥ ४६ ॥

स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः
कुशित्वा पुष्णासि श्रुतिकुहरमब्धे किमिति नः ।
इहैकश्चूडालो ह्यजनि कलशादस्य सकलैः
पिपासोरम्भोभिश्चलकमपि नाहर्तुमशकः ॥ ४७ ॥

सर्वासां त्रिजगत्यपामियमसावाधारता तावकी
प्रोल्लासोऽयमथो तवाम्बुनिलये केयं महासत्त्वता ।
सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल-
प्रावस्रोतसि पाप तापकलहो यत्क्वापि निर्वाप्यते ॥ ४८ ॥

नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं
त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरम् ।

१. 'भाययसि' इति सुभा०, २. 'कुषित्वा' इति सुभाषिताबलावशुद्धः पाठः,

३. 'क्लिश्नासि' इति सुभा०. ४. 'अभ्यजनि' इति सुभा०. ५. 'नो भर्तु इति सुभा०, सुभाषितावलौ 'स्खमाहात्म्य-' इत्यादिश्लोकस्य पूर्वोत्तरार्धयोर्व्यत्ययीऽस्ति. ६. 'असौ' इति सुभा०. १२ चतु०