पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७६ काव्यमाला।


किं जातोऽसि चतुष्पथे धनतरच्छायोऽसि किं छायया
युक्तश्चेत्फलितोऽसि किं फलभरैराढ्योऽपि कि संनतः ।
हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण-
क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥ ३९ ॥

सन्मूलः प्रथितोन्नतिर्घनलसच्छायः स्थितः सत्पथे
सेव्यः सद्भिरितीदमाकलयता तालोऽध्वगेनाश्रितः ।
पुंसः शक्तिरियत्यसौ सफलता त्वद्याथवा श्वोऽथवा
काले क्वाप्यथवा कदाचिदथवा न त्वेव वेधाः प्रभुः ॥ ४० ॥

त्वन्मूले पुरुषायुषं गतमिदं गात्रेण संशुष्यता
क्षोदीयांसमपि क्षणं परमतः शक्तिः कुतः प्राणितुम् ।
तत्स्वस्त्यस्तु विवृद्धिमेहि महतीमद्यापि का नस्त्वरा
कल्याणैः फलितासि तालविटपिन्पुत्रेषु पौत्रेषु वा ॥ ४१ ॥

पश्यामः किमयं प्रपद्यत इति स्वल्पाभ्रसिद्धिक्रियै-
र्दर्पाद्दूरमुपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः ।
लब्धात्मप्रसरेण रक्षितुमथाशक्तेन मुक्त्वाशनिं
स्फीतस्तादृगहो घनेन रिपुणा दग्धो गिरिग्रामकः ॥ ४२ ॥

साधूत्पातघनौध साधु सुधियां ध्येयं धरायामिदं
कोऽन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करम् ।
सर्वस्यौपयिकानि यानि कतिचित्क्षेत्राणि तत्राशनिः
सर्वानौपयिकेषु दग्धसिकतारण्येष्वपां वृष्टयः ॥ ४३ ॥

१. 'यज्जातोऽसि चतुष्पथे धनलसच्छायोऽसि किं छायया संयुक्तः फलितोऽसि

कि यदि फलैः पूर्णोऽसि किं संनतः' इति सुभा०. सुभाषितावलौ शार्ङ्गधरपद्धतौ चायं श्लोको भदन्तज्ञानवर्मणो नाम्ना समुद्धृतः, २. 'स तु फलेदद्याथवा' इति सुभा०.३. 'नेत्यत्र' इति सुभा०, ४, 'कालेन संशुष्यतां' इति सुभा०.५. 'वि- चेष्टते' इति सुभा०. ६. 'तावदहो' इति सुभा०।