पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भल्लटशतकम् । १७५


लब्धं चिरादमृतवत्किममृत्यवे स्या-
द्दीर्घं रसायनवदायुरुत प्रदद्यात् ।
एतत्फलं यदयमध्वगशापदग्धः
स्तब्धः खलः फलति वर्षशतेन तालः ॥ ३४ ॥

अन्तः कर्कशता बहिश्च घटना मर्माविधैः कण्टकै-
श्छायामण्डलसंस्पृशां तनुभृतामुद्वेजिनी संस्थितिः ।
तन्नामास्तु विधेरिदं विलसितं बर्बूरशाखिन्सखे
शाखा ते फलशाखिनामपि वृतिः संपत्स्यते भूरुहाम् ॥ ३५ ॥

एष श्रीमानविरलगुणग्रामणीर्नारिकेल-
श्छाया यस्य प्रभवति चिरं घर्मशान्त्यै जनानाम् ।
तेनाम्भोभिः कतिचन जना वासरांस्तर्पयध्वं
दास्यत्येतच्छतगुणमयं वारि मूर्ध्ना दधानः ॥ ३६ ॥

छिन्नस्तप्तसुहृत्स चन्दनतरुर्यस्मै पलाय्यागता
भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः ।
दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चे-
त्किं तेनैव सह स्वयं न दलशो याताः स्थ भो भोगिनः ॥ ३७ ॥

संतोषः किमशक्तता किमथवा तस्मिन्नसंभावना
लोभो वायमुतानवस्थितिरियं प्रद्वेष एवाथवा ।
आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे
संबन्धोऽननुरूपयापि न कृतः किं चन्दनस्य त्वया ॥ ३८ ॥

१. 'फलं फलति' इति सुभा०. २. 'यूयं' इति सुभा०. ३. "निधनं' इति

सुभा०. ४. 'शोभैबाथ च काननस्थितिरियं' इति सुभा०.