पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

१७४ काव्यमाला ।


उच्चैरुच्चरतु चिरं झिल्ली वर्त्मनि तरुं समारुह्य ।
दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः ॥ २६ ॥

शङ्खोऽस्थिशेषः स्फुटितो मृतो वा प्रोच्छ्वास्यतेऽन्यश्वसितेन सत्यम् ।
किं तूच्चरत्येव न सोऽस्य शब्दः श्राव्यो न यो यो न सदर्थशंसी ॥ २७ ॥

यथापल्लवपुष्पास्ते यथापुष्पफलर्द्धयः ।
यथाफलार्द्धि स्वारोहा हा मातः क्वागमन्द्रुमाः ॥ २८ ॥

साध्वेव तद्विधावस्य वेधा क्लिष्टो न यद्व्यधात् ।
स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥ २९ ॥

फलितघनविटपविघटितपटुदिनकरमहसि लसति कल्पतरौ ।
छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी ॥ ३० ॥

ग्रथित एव मिथः कृतशृङ्खलैर्विषधरैरधिरुह्य महाजडः ।
मलयजः सुमनोभिरनावृतो यदत एव फलेन वियुज्यते ॥ ३१ ॥

चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिमत्कुतः ।
रक्षितुं वद किमात्मगौरवं संचिताः खदिर कण्टकास्त्वया ॥ ३२ ॥

यत्किंचनानुचितमप्युचितानुबन्धि
किं चन्दनस्य न कृतं कुसुमं फलं वा ।
लज्जामहे भृशमुपक्रममेव यान्त-
स्तस्यान्तिकं परिगृहीतबृहत्कुठाराः ॥ ३३ ॥

१. 'चीरी' इति सुभा०. अयं श्लोकः सुभाषितावलौ भागवतजयवर्धननाम्ना

समुद्धृतः. २. 'यदुच्छ्वतेनोच्छ्वसते नु' इति सुभा०. ३. 'पुष्पाढ्याः' इति सुभा०. ४. 'यन्मुधा' इति सुभा०. ५. 'एष मिथः कृतशृङ्खलो' इति सुभा०. ६. 'अ- नाश्रितः' इति सुभा०. ५. 'न युज्यते' इति सुभा०. ८. 'सौष्ठवं' इति सुभा०, ९.'यातः' इति सुभा०.१०. "कुठारः' इति सुभा०,