पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भल्लटशतकम् । १७३


पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां
नवदधिघटीं गर्वोन्नद्धः समुद्धतकंधरः ।
निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो
यदि न कुरुते काणः काकः कदा नु करिष्यति ॥२०॥

नृत्यन्तः शिखिनो मनोहरममी श्राव्यं पठन्तः शुका
वीक्ष्यन्ते न त एष संप्रति रुषा वार्यन्त एवाधुना ।
पान्थस्त्रीगृहमिष्टलाभकथनाल्लब्धान्वयेनामुना
संप्रत्येत्य निरर्गलं बलिभुजा मायाविना भुज्यते ॥२१॥

करभ रभसात्कोष्टुं वाञ्छस्यहो श्रवणज्वरः
शरणमथवानृज्वी दीर्घा तथैव शिरोधरा ।
बहुगलबिलावृत्तिश्रान्तोच्चरिष्यति वाच्छुखा-
दियति समये को जानीते भविष्यति कस्य किम् ॥२२॥

अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥ २३ ॥

किं दीर्घदीर्घेषु गुणेषु पद्म सितेष्ववच्छादनकारणं ते ।
अस्त्येव तान्पश्यति चेदनार्या त्रस्तेव लक्ष्मीर्न पदं विधत्ते ॥ २४ ॥

न पङ्कादुद्भूतिर्न जडसहवासव्यसनिता
वपुर्दृश्यं कान्त्या स्थलकमल रक्तद्युतिमुषा ।
व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते
त्वमेवैकं लक्ष्म्याः परममभविष्यः पदमिह ॥ २५ ॥

१. 'श्रव्यं इहि सुभा०.

२. 'एतदनर्गलं' इति सुभा०.३। 'पृथुगल-' इति सुभा०. ४. 'न पङ्कात् इत्यादि श्लोकः सुभाषितावलौ श्रीजयवर्धननाम्नी समुद्धृतोऽस्ति. ५. 'वपुर्दिग्धं कान्त्या स्थलनलिन रत्नधुतिभुषा इति सुभा०।