पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भल्लटशतकम् । १७१


सद्वृत्तयः सदसदर्थविवेकिनो ये
ते पश्य कीदृशममुं समुदाहरन्ति ।
चौरासतीप्रभृतयो ब्रुवते यदस्य
तद्गृह्यते यदि कृतं तदहस्करेण ॥ ९ ॥

प्रातः पूष्णो भवति महते नोपतापाय यस्मा-
त्कालेनास्तं क इह न ययुर्यान्ति यास्यन्ति चान्ये ।
एतावत्तु व्यथयतितरां लोकबाह्यैस्तमोभि-
स्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ १० ॥

पङ्क्तौ विशन्ति गणिताः प्रतिलोमवृत्त्या
पूर्वे भवेयुरियताप्यथवा त्रपेरन् ।
सन्तोऽप्यसन्त इव चेत्प्रतिभान्ति भानो-
र्भासावृते नभसि शीतमयूखमुख्याः ॥ ११ ॥

गते तस्मिन्भानौ त्रिभुवनसमुन्मेषविरह-
व्यथां चन्द्रो नैष्यत्यनुचितमतो नास्त्यसदृशम् ।
इदं चेतस्तापं जनयतितरामत्र यदमी
प्रदीपाः संजातास्तिमिरहतिबद्धोद्धुरशिखाः ॥ १२ ॥

सूर्यादन्यत्र यच्चन्द्रेऽप्यर्थासंस्पर्शि तत्कृतम् ।
खद्योत इति कीटस्य नाम तुष्टेन केनचित् ॥ १३ ॥

धनसंतमसमलीमसदशदिशि निशि यद्विराजसि तदन्यत् ।
कीटमणे दिनमधुना तरणिकरस्थगितसितकिरणम् ॥ १४ ॥

१. 'क इव न गता' इति सुभाषितावलि-शार्ङ्गधरयोः पाठः, २. 'व्यथ-

यति यदालोक-' इति सुभा० शार्ङ्ग पाठः. ३. 'अर्थसंस्पर्शि' इति सुभा०. ४. 'तरणिकरान्तरित-' इति सुभा० शार्ङ्ग०. ४. 'धृष्टेन' इति पाठो युक्तः स्यात्।