पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
काव्यमाला ।

शूलप्रोतादुपात्तप्लुतमहि महिषादुत्पतन्त्या स्रवन्त्या वर्मन्यारज्यमाने सपदि मखभुजां जातसंध्याप्रमोहः । नृत्यन्हासेन मत्वा विजयमहमहं मानयामीतिवादी यामाश्लिष्य प्रनृत्तः पुनरपि पुरभित्पार्वती पातु सा वः ॥१६॥ सा पार्वती वः पातु । यामाश्लिष्य पुरभिच्छिवः पुनरपि प्रनृत्तो नर्तितु- मारब्धवान् । किं कुर्वन् । नृत्यन् । कथंभूतः । सपदि तत्क्षणं मखभुजां वर्त्म- नि देवमार्ग आकाश उपान्ते समीपे प्लुता मही यस्मिन्नेवं यथा स्यात्तथा शू- लप्रोतात्रिशूलविद्धादुत्पतन्त्योच्छलन्त्या स्त्रवन्त्या रुधिरनद्यारज्यमाने रक्ती- क्रियमाणे सति जातसंध्याप्रमोहः समुत्पन्नसंध्याकालभ्रान्तिः। संध्यासमये हरो नृत्यतीति भावः । पुनश्च मत्वा बुध्द्वा । अस्मद्भार्याशूलप्रोतमहिषोत्पत- द्रक्तनदीरक्तमेव व्योम नायं संध्याकाल इति ज्ञात्वेति भावः । ततो हासेन परितोषेण विजयमहं विजयोत्सवं मानयाम्यहमिति वादी । उपान्तप्लुतमहीति , क्रियाविशेषणम् । समासान्तविधेरनित्यत्वान्न कप् ॥ नाकौकोनायकाद्यैर्द्युवसतिभिरसिश्यामधामा धरित्रीं रुन्धन्वर्धिष्णुविन्ध्याचलचकितमनोवृत्तिभिर्वीक्षितो यः । पादोत्पिष्टः स यस्या महिषसुररिपुर्नूपुरान्तावलम्बी लेमे लोलेन्द्रनीलोपलशकलतुलां स्तादुमा सा श्रिये वः ॥१७॥ सा उमा वः श्रिये स्तात् । सा का । यस्याः पादोत्पिष्टो महिषाख्यः सुर- रिपुर्नूपुरान्तावलम्बी लोलेन्द्रनीलपाषाणखण्डसाम्यं लेभे । नूपुरसमीप इन्द्र- नीलशकलेनावश्यमेव भाव्यम् । कथंभूतः । नाकौकोनायकाद्यैरिन्द्राद्यैर्द्युव- सतिभिर्देवैर्धरित्रीं रुन्धन्पृथ्वीमावृण्वन्दृष्टः । कथंभूतैः । वर्धिष्णुविन्ध्याचल- चकितमनोवृत्तिभिः । किमयं विन्ध्याचल एव पुनर्वृद्धिं गच्छतीति भीतैः । असिश्यामधामा खङ्गवन्मेचककान्तिः ।। दुर्वारस्य द्युधाम्नां महिषितवपुषो विद्विषः पातु युष्मा- न्पार्वत्या प्रेतपालखपुरुषपरुषः प्रेषितोऽसौ पृषत्कः ।