पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
चण्डीशतकम् ।

अस्त्रीसंभाव्यवीर्या त्वमसि खलु मया नैवमाकारणीया कात्यायन्यात्तकेलाविति हसति हरे ह्रीमती हन्त्वरीन्वः ॥१४॥ हरे आत्तकेलौ गृहीतकीडे इति हसति सति ह्रीमती लज्जाकुला कात्या- यनी वो युष्माकमरीञ्शत्रून्हन्तु । इतीति किम् । अद्य त्वं महिषीति मया नोच्यसे । यतः, अस्त्रीसंभाव्यवीर्या । स्त्रीष्वेतादृशं वीर्य न संभाव्यते । द्रा- अझटिति द्विषति शत्रौ महिषे दीर्घनिन्द्रां मृत्युं नीते सति, त्वयेत्यर्थात् , नि- र्गन्नानास्त्रशस्त्रावलि दानवानां बलं सैन्यं केवलं स्वामिशून्यमद्य वलति चलति यथागतं याति । महिषी कृताभिषेका राज्ञी सैरभी च । या महिष- वधं करोति सा कथं महिषीशब्दाभिधेया। महिषी महिषाद्धीनबला भवति, त्वं तु महिषात्कोटिगुणाधिकबला । प्रायशो बाहुल्येन । एवं मया त्वं नाका- रणीया । स्त्रीरूपाया एव भार्याया आकारणमाह्वानं युक्तम् । त्वं तु पुरुषचे. ष्टितेति हासः॥ जाता किं ते हरे भीर्भवति महिपतो भीरवश्यं हरीणा- मद्येन्दोर्द्वौ कलङ्कौ त्यजति पतिरपां धैर्यमालोक्य चन्द्रम् । वायो कम्प्यस्त्वयान्यो नय यम महिषादात्मयुग्यं ययारौ पिष्टे नष्टं जहास द्युजनमिति जया सास्तु देवी श्रिये वः ॥१५॥ सा देवी वः श्रियेऽस्तु । सा का । यया अरौ महिषाख्ये शत्रौ पिष्टे चू- र्णिते सति जया तत्प्रतीहारी नष्टं महिषभयात्पलायितं द्युजनमिन्द्राद्यमिति जहास । इतीति किम् । हे हरे इन्द्र अथवा विष्णो, ते तव भीर्भयं किं जाता । अथ वा युक्तमेतत् । यतोऽवश्यमेव महिषतो हरीणां भीर्भवति । अत्र हरिशब्दोऽश्ववाचकः । किं चाद्य इन्दोश्चन्द्रस्य द्वौ कलङ्कौ जातौ । एक- स्तावत्सहजः, द्वितीयस्तु महिषयुद्धे पलायनान्निन्दारूपः । अपां पतिर्वरुण- श्चन्द्रं नष्टमालोक्य धैर्य त्यजति कातरो भवति । उचितमेतत् । अपांपतिः समुद्रश्चन्द्रमालोक्य धैर्य त्यजेद्वेलाभिमुखं प्रसरेत् । हे वायो, त्वयान्यः कम्प्यः कम्पनीयः, त्वं तु स्वयं कम्पस इति भावः । अपि च हे यम, म- हिषादात्मयुग्यं स्ववाहनं नय अपसारय । महिषो महिषान्तरं दृष्ट्वा क्रुध्य- तीति भावः॥