त्रासेनैवाद्य सर्वः प्रणमति कदनेनामुनेति क्षतारिः
पादोऽव्याचुम्बितो वो रहसि विहसता त्र्यम्बकेणाम्बिकायाः१२
इति विहसता त्र्यम्बकेण रहस्पेकान्तेऽन्यं विनयप्रकारमपश्यता चुम्बितः
क्षतारिर्व्यापादितशत्रुरम्बिकायाः पादो वो युष्मानव्याद्रक्षतु । इतीति किम् ।
हे विजये पार्वतिसखि, अथवा विजये सति अमुष्मिन्विजयिनि विजयशा-
लिनि रक्ताक्ते महिषरुधिराद्रींभूते ते पादेऽलक्तकश्रीर्न चिराजति । अथ च
दलिताद्रीन्द्रसारद्विषो नाशितः पर्वतेन्द्रसमानगरिमा शत्रुर्येन तस्यास्य तव
पादस्य हस्ताग्रेण संवाहनमपि हासः । किं चाद्याधुनामुना कदनेन महिषव-
धेन सर्वो जनस्त्रासेनैव प्रणमतीति । चरणे यावकरसरञ्जनं हस्ताग्रेण संवाहनं
प्रणामश्चेति त्रयमुचितम् । किं त्वत्र त्रयमपि न घटत इति महादेवेन तच्चु-
म्बनमेव कृतम् ॥
भङ्गो न भ्रूलतायास्तुलितबलतयानास्थमस्थां तु चक्रे
न क्रोधात्पादपद्मं महदमृतभुजामुद्धृतं शल्यमन्तः ।
वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पार्ष्णे-
र्मुष्णन्त्यासून्सुरारेः समरभुवि यया पार्वती पातु सा वः ॥१३॥
सा पार्वती वः पातु । यया पार्ष्णेरंशेन पादतलपश्चाभागैकदेशेन समर-
भुवि सुरारेर्महिषस्यासून्मुष्णन्त्या न केवलं भ्रूलताया एव भङ्गः कृतः,
अपि
तु तुलितबलतया अनास्थं यथा स्यात्तथा अस्थां कीकसानमपि अर्थान्महि-
षस्य भङ्गचूर्णनं चक्रे । यस्य बलं तुलितं भवति तस्य पराजयेऽनास्था क्रिय-
ते । भ्रूलताभङ्गो भ्रूकटिलत्वं क्रोधेन । किं च क्रोधात्पादपद्ममेव नोद्धृतम्,
अपि तु अमृतभुजां देवानां महदन्तः शल्यमप्युद्धृतम् । देवा हि महिषं श-
ल्यभूतमन्तश्चिन्तयन्ति स्म । अन्यच्च नूपुरमेव वाचालं मुखरं नो जातम्,
अपि तु जयं शंसत्कथयजगदपि वाचालमजनि ॥
निर्यन्नानास्त्रशस्त्रावलि वलति बलं केवलं दानवानां
द्राङ् नीते दीर्घनिद्रां द्विषति न महिषीत्युच्यसे प्रायशोऽद्य ।
१. 'तिर्यक्',