पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कः पुरुषो जन्मफलं स्वकीयं जानाति, अपि तु न कोऽपि । एतदेव मनुष्य- जन्मनः फलं चित्तस्य जानीत । यद् रामं आश्रितं प्रेम । दृष्टान्त:---चोरस्थ- लशायिनः हैमनी हेमन्तसंबन्धिनी निशा कुशलतः किं कस्यापि याता॥ [श्रृ ० .] भावानां बिब्बोकादीनां सीमां मर्यादाम् इमां स्त्रियम् अहं विपुलया सुवर्णसंपत्त्या प्राप्तः उग्राधिना मया अपिहित आच्छादितः को जनो मम मायां जानाति । मनुष्यजन्मनो देहिन एतदेव फलं चित्तस्य यद् रामाश्रितं प्रेम । किं च अस्या उरःस्थले शयनीयशीलस्य मम हैमनी- निशा सुखेन याता॥ कार्येहानुसरणतो वारंवारं परं पुमांसमनु । यतमानस्यानुदिनं भवति यतः प्रेमलक्षणं भजनम् ॥ २६ ।। कार्येति । [वै०-] वारंवारं परं पुमांसं परमेश्वरम् अनु लक्षीकृत्य ईहा स्पृहा कार्या। यतः स्पृहातोऽनुदिनं यतमानस्य प्रेमलक्षणं भजनं भवति ॥ - [श्रृ ० --] इह संसारे वारंवारम् अनुसरणतः परं पुरुषम् अनु का स्त्री आर्या साध्वी । अतोऽनुदिनं यत्नं कुर्वतः प्रेम्गो लक्षणं चिह्नरूपं भजनं भवतीति ॥ न कर्म रामाप्तिकरं कृतं मया न वाचिरम्भारतवर्णनं श्रुतम् । वृथैव पूर्वः समयः समापितो न चेदिदं किं नु कृतं किमु श्रुतम् ॥२७॥ नेति । [वै०-.] रामस्य प्राप्तिकृत् कर्म न कृतम् । न वा भारतस्य व- र्णनं चिरं श्रुतम् । ततः पूर्वः समयो वृथैव समापितः । इदं कार्यद्वयं न कृतं चेत् किं कृतम् , किं नु श्रुतम् ॥ [श्रृ ० -] रामा स्त्री तत्प्राप्तिकरं कर्म किमपि मया न कृतम् । वाचि बचने रम्भाया रतस्य वर्णनं न श्रुतम् । ततः पूर्वः समयः तारुण्यवयःक्रमो वृथैव समापितः । इदं कर्मद्वयं चेन्न कृतम् , तदा किं कृतम्, किं श्रुतम् ॥ स्पृशति स्वरूपमुग्धं शश्वदसत्यद्वितीयभावेन । भ्रमयति विकलयतीदं दृश्यञ्जनमात्ममायया कलितम् ॥२८॥ स्पृशतीति । [ वै०-] इदं दृश्यं विश्वं स्वरूपे परमात्मभावे मुग्धं जनं शश्वन्निरन्तरम् असत्यो यो द्वितीयभावस्तेन स्पृशति । यत आत्मन एव मायया कलितं कल्पितम् । ततो जनं भ्रमयति भ्रान्तं करोति विकलयति च ॥