नखरजनिकृतां नखचन्द्राणामातपेन प्रकाशेनातिपाण्डुरतिशुभ्रः पार्वत्याः
स पादो युष्मान्पातु । कथंभूतानां नखरजनिकृताम् । प्रालेयोत्पीडपीनाम्
प्रालेयं हिमं तच्च धवलं भवति । तदुत्पीडनेन धवलिम्नः पुष्टता भवति ।
भगवती च प्रायेण प्रालेयशैलसंचारिणी । कस्येव पादः। पितुरिव हिमाच-
लस्येव पादः प्रत्यन्तपर्वतः । पादशब्दो द्विरावर्तनीयः । अथवा स्वपितृचर-
णसदृशश्चरणः । पितृसद्दशी कन्या धन्येति प्रशस्तत्वकथनम् । कीदृशः पादः।
तुलितान्द्रीन्द्रसारः । अतिगुरुरिति यावत् । स कः । यः पादो देव्या एव
नो वामः सव्यः, अपि तु छलमहिषतनोः कपटमहिषस्य नाकलोकद्विषो देव-
शत्रोरपि वामो वैरी प्रतिकूलो वा । कुतः । धैर्यात्सत्त्वाधिक्यान्मुक्ता या
लीला तस्याः समुचितं यत्पतनं पातस्तस्यापाते आरम्भे यद्वा समुचितपत-
नेन आपाततः पीता गिलिता असवः प्राणा येन [अर्थान्महिषस्य] । यत्र
धीररसविभावका धैर्यशौर्यादयो भवन्ति तत्र शृङ्गारव्यञ्जिका लीला न भव-
ति। अत एव लीलामुक्तत्वमुक्तम् । ततो वैरिव्यापादनमुचितम् । तत आपा-
ततोऽविभावितविचारं पीतासुत्वम् ॥
वक्षो व्याजैणराजः स दशभिरभिनत्पाणिजैः प्राक्सुरारेः
पञ्चैवास्तं नयामो युवतिचरणजाः शत्रुमेते वयं तु ।
इत्युत्पन्नाभिमानैर्नखंशशिमणिभिर्ज्योत्स्नया स्वांशुमय्या
यस्याः पादे हतारौ हसित इव हरिः सास्तु काली श्रिये वः ११
सा काली वः श्रियेऽस्तु । सा का । यस्याः पादे हतारौ घातितशत्रौ सति
स्वांशुमय्या ज्योत्स्नया नखशशिमणिभिर्नखचन्द्रकान्तैर्ह रिरिति हसित इव
बभूव । इतीति किम् । प्राक्पूर्व सुरारेर्हिरण्यकशिपोर्वक्ष उरःस्थलं व्याजैण-
राजः कपटसिंहो नरहरिर्दशभिः पाणिजैनखैरभिनत् । एते वयं तु युवतिच-
रणजाः,
पञ्चैव शत्रुमस्तं नयाम इत्युत्पन्नाभिमानैर्जातगर्वैः । हरेर्नखा: करजाः,
चयं युवतिचरणजाः, ते दश वयं पञ्च, तैर्वक्षोमात्रं विदारितमस्माभिस्तु
शत्रुरस्तं नीतः, इत्यभिमानकारणम् ॥
रक्ताक्तेऽलक्तकश्रीर्विजयिनि विजये नो विराजत्यमुष्मि-
न्हासो हस्ताग्रसंवाहनमपि दलितान्द्रीन्द्रसारद्विषोऽस्य ।
१. 'अतिरुचिरनखैः'. २. 'शान्त्यै शिवा वः'. ३. 'तुलिताद्रीन्द्र-