पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कादम्बरी

जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥ २ ॥


तद्दीक्षिताने कविनेयवर्गमुक्तालतामध्यमणिप्रकारः ।
श्रीवाचकेन्द्रः सकलादिचन्द्रो बभूव विश्वाद्भुतवाग्विलासः ॥
श्रीसूरचन्द्रः समभूत्तदीयशिष्याग्रणीन्र्यायविदां वरेण्यः ।
यत्तयुक्त्या त्रिदिवं निपेवे तिरस्कृतश्चित्र शिखण्डिजोऽपि ॥
तदीय पादाम्बुजचञ्चरीको विराजतेऽद्धा हरिधीसखाभः ।
श्रीवाचकः संप्रति भानुचन्द्रो ह्यकव्वरमापतिदत्तमानः ॥
श्रीशाहिचेतोऽब्जघडवितुल्यः श्रीसिद्धचन्द्रोऽस्ति मदीयशिष्यः ॥
कादम्बरीवृत्तिरियं तदीय मनोमुदे तेन मया प्रतन्यते ।

 इह हि विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारि दिसतविन्न विधातफलकं हिरण्यगर्भन मस्का रात्मक मङ्गलमाचरति-रजोलुप इति । अजाय स्वयंभुवे नम इत्यन्वयः । किंभूताय । प्रजानां जन्मनि सृष्टिकाले रजोजुपे रजोगुणयुक्ताय । पुनः किं विशिष्टाय । प्रजानां स्थिती स्थितिकाले सत्वयु ये सत्वस्य वृत्तियस्मिन् । रात्वगुणयुतायेयर्थः । पुनः किंलक्षणाय । प्रजानां प्रलये विनाशकाले तमःस्पृशै तगोगुणयुक्ताय । अमीपां च गुणानां लक्षणम् ‘सत्त्वं लघु प्रकाशकं च, चलमवष्टम्भकं च रजः, गुबवरणं च तमः' इति द्रष्टव्यम् । जन्मनि स्थितौ प्रलये चेति निमित्तसप्तमी वा । पुनः किं विशिष्टाय । रार्गस्थितिनाशहेतवे प्रजानामियस्य सर्वत्रानुपङ्गः । तेन प्रजानां सर्गः स्थितिथ नाशय तेषां हेतचे कारणीभूताय । पुनः किंलक्षय । त्रयीमयाय । त्रयी ब्रह्मविष्णुमहेशानाम् । वेदानां वा त्रयी । तन्मयाय तत्स्वरूपाय । पुनः किं विशिष्टाय । त्रिगुणात्मने ब्रह्मविष्णुमहेशात्मकत्वेन तत्तद्ण योगाग्रिगुणात्मकाय । सत्त्वरजस्तमोगुणस्वरूपायेत्यर्थः । तादृशाय पितामहाय नम इति प्राचीनव्याख्या । अत्र च व्याख्याने विधेः सृष्टिमात्रकर्तृत्वेन केवलं रजोगुणस्यैव संवन्धोत्रिगुणात्मकखगति विरुद्धम् । किंवा विधेस्तमोगुणवत्त्वे रात्वगुणवत्त्वे वा शिवत्वं विष्णुत्वं च व्यपदिश्येत । एतेषां त्रयाणां गुणभेदादेव मूर्तिभेद इति पौराणिकाः । अपच पूर्वार्ध जन्मस्थितिप्रलयकर्तृत्वस्य रजोजुषे सत्त्ववृत्तये तमःस्पृश इत्यनेन त्रिगुणात्मकत्वस्यापि चोक्तत्वेन पुनरुत्तरार्धं सर्ग स्थिति नाश हेतव इति त्रिगुणात्मन इति च पुनरुक्तं स्यादिति प्रकारान्तरेण व्याख्यास्यामः-अजाय कूटस्थ निसाय परव्रह्मणे नम इत्यन्वयः । किंभूताय । प्रजानां सर्गस्थितिनाशहेतवे । प्रजाना मिल्यनियमात्रपदा पलक्षकम् । तेनानियपदार्थानां सर्गस्थितिनाशकारणायेत्यर्थः । अनित्यपदार्थानां रदृष्टिस्थितिनाशहेतुत्वं च श्रुति सिद्धम् । जगत्कारणं ब्रहा' इति श्रुतेः । पुनः किंभूताय । त्रयीमयाय । त्रयी वेदानां त्रयी तत्वरूपाय । ‘बेद एवं परं ब्रह्म' इत्युक्तत्वात् । यद्वा । त्रयी ब्रह्मविष्णुमहेशानां नयी तत्स्वरूपाय । यथा मृद उत्पतेऽपि घटे मृन्मय इति व्यावह ररतथा वहाणत्रयाणामत्पादकत्वेऽन्नसीमयान्यवहार; समन्चितः ।