पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/41

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कादम्बरी ।
उत्तरभागः ।
देहद्वयार्धघटनारचितं शरीर-

मेकं ययोरनुपलक्षितसन्धिभेदम् ।
वन्दे सुदुर्घटकथापरिशेषसिध्ध्यै
सृष्टेर्गुरू गिरिसुतापरमेश्वरौ तौ ॥१॥
व्याधूतकेसरसटाविकरालवक्त्रं
हस्ताग्रविस्फ़ुरितशङ्खगदासिचक्रं
आविप्कृतं सपदि येन नृसिंहरूपं ?ं
नारायणं तमपि विश्वसृजं नमामि ॥२॥
आर्यं यमर्चति गृहे गृह एव लोकः
पुण्यैः कृतश्च यत एव ममात्मलाभः । १०
सृष्टैव येन च कथेयमनन्यशक्या
वागीश्वरं तिरमेव तमानतोस्मि ॥३॥
याते दिवं पितारई पितरि तद्वचसैव सार्धं
विच्छेदमाप भुवि यस्तु कथाप्रबन्धः ।
दुःखं सतां तदसमाप्तिकृतं विलोक्य १?
प्रारव्ध एव स मया न कवित्वदर्पात् ॥४॥
गद्ये कृतोपि गुरुणा तु तथाक्षराणि
यन्निर्गतानि पितुरेव स मेऽनुभावः ।
एकप्लवामृतरसास्पदचन्द्रपाद-

सम्पर्क एव हि मृगाङ्कमणेर्द्रवाय ॥५॥ ?०'

 ं
कृतस्य इति न.