पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/144

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गचिन्तानिमीलितं मां समुच्छ्वासयन्निव विकासहासिना मुखेन
सहसा प्रविश्य हारीतोऽभ्यधात् |भ्रातर्वैशम्पायन दिष्ट्या वर्धसे|
पितुस्ते भगवतः श्वेतकेतोः पादमूलात्कपिञ्जलस्त्वामेवान्विप्यन्ना
यात इति|
?ए अहं तु तछुत्वा तत्क्षणेनोत्पन्नपक्ष इवोत्पत्य तत्समीपमेव
प्राप्तुमभिवाञ्छत्रुद्बीवावलोकी क्वासाविति तमप्राक्षम्| स त्वकथयत्|
एष तातपादमूले वर्तत इति| एवं वादिनं तु तमहं
पुनरवदम्| यद्येवं ततः प्रापयतु मां तत्रैव भगवान्| उत्ताम्यति
मे हृदयं तद्दर्शनाय इति| एवं वदन्नेवाग्रतो गगनागमनवेगा
।० दयथास्थितजटाकलापम् , अनिलपथसञ्चरणचलितैकाञ्चलोत्त
रीयम्, तरुत्वचा दृढाबद्धपरिकरम्, अर्धन्नुटितयज्ञोपवीत-
सनाथास्थिशेपोरस्कम्, निःशेपसुरपथावतरणश्रमोच्छुसितशरीरम्,
समीरणापहृतमपि मरुत्पथोत्पन्नखेदसम्भृतमुदकप्रवेशान्निस्यन्द-
मानस्वेदमाननेन मदवलोकनदुःखोद्गतं च बाप्पजललवविसरमी-
१ क्षणाभ्यां युगपदुत्स्रजन्तम्, मुमुक्षुमपि मत्स्नेहेनामुक्तम्,
वीतरागमपि मत्प्रियहितरतं निःसङ्गमपि मत्समागमोत्सुकम्,
निःस्पृहमपि सदर्थसम्पादनपर्याकुलम्, निर्मममप्युपारूढस्ने-
हम्, निरहंकारमप्यहमेवायमिति मां मन्यमानम्, समुज्झि-
तक्लेशमपि मदर्थे क्लिश्यन्तम्, समलोष्टाश्मकाञ्चनतासुखितमपि
?० मदृ:खदुःखितम्,कृतज्ञमकृतज्ञः स्नेहलप्रकृति रूक्षचेताः सुकृ-
तिनमपुण्यवाननुगतं वामसभावो भावार्द्रहृदयमेकान्तनिष्ठुरो मित्रं
वैरी वचनकरमनाश्रवो महात्मानं दुरात्मा कपिञ्जलमहमद्राक्षमा|
दृष्ट्वा च निर्भरगलितनयनपयास्तादृशोपि कृताभ्युद्गमनप्रयत्नः फ़ु-
त्कृत्य तमवदम्| सखे कपिञ्जल, एवं जन्मद्वयान्तरितदर्शनमपि त्वां
? ष्दृष्ट्वा किं सरभसमुत्थाय दूरत एव प्रसारितभुजद्वयो गाढालिङ्गनेन
?
१ 'गमना'०इति न. २ 'पथोत्पतन'०इति न.