पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

काश्मीरकमहाकविश्रीमदभिनन्दप्रणीतः


कादम्बरीकथासारः।


प्रथमः सर्गः ।

श्रियं दिशन्तु वः शौरेर्द्वये तुल्यश्रमाः क्रमाः ।
ये चादौ गोष्पदं पश्चात्रैलोक्यं काम्यतश्च ये ॥१॥
सरसाः सदलंकाराः प्रसादमधुरा गिरः ।
कान्तास्तातजयन्तस्य जयन्ति जगतीगुरोः ॥ २ ॥

१. अयमभिनन्दमहाकविः कश्मीरेषु रेगु क्रिस्ताब्दीयाष्टमशतकोत्तरभागे समुत्पन्न इति

प्रतीयते, यतोऽस्य पञ्चमः पूर्वपुरुषः शक्तिस्वामी कर्कोटवंशोद्भवस्य मुक्तापीडनरपतेर्मन्त्रिप्रवर आसीदित्यत्रैव ग्रन्थारम्भे स्फुटमस्ति, मुक्तापीड इति तु सप्तमशतकोत्तरभागे कश्मीरान्पालयतो ललितादित्यस्य नामान्तरमस्तीति राजतरङ्गिण्यां (४।३९-४३) प्रसिद्धमेव. तस्माद्वाणभट्टानन्तरं किंचिन्न्यूनाधिकसार्धशतवर्षेष्वतीतेष्वभिनन्दः समुत्पन्न इति सुव्यक्तमेव. दशमशतकसमाप्तिसमुद्भूतः श्रीमदाचार्याभिनवगुप्तोऽपि ध्वन्यालोकलोचने तृतीयोद्द्योते कादम्बरीकथासारस्य स्मरति स्म. एवं क्षेमेन्द्रः सुवृत्ततिलके तृतीयविन्यासे 'तस्यां निजभुजोद्योग-' (१1१६) इत्यादि पद्यम्' भोजदेवश्च सरस्वतीकण्ठाभरणे पञ्चमपरिच्छेदे चन्द्रापीडं सा च जग्राह कण्ठे-' (८|७९) इत्यादि पद्यं कादम्बरीकथासारस्यमुदाहृतवान् , सुवृत्ततिलके 'अनुष्टप्सततासक्ता साभिनन्दस्य नन्दिनी । विद्याधरस्य वदने गुलिकेव प्रभावभूः ॥ इत्यनुष्टुप्छन्दोनिर्माणेऽभिनन्दकविं क्षेमेन्द्रः स्तौति स्म. कादम्बरीकथासारमपहायान्यः कोऽपि ग्रन्थोस्य कवेर्नोपलभ्यते. रामचरितकाव्यस्य प्रणेता तु कश्चिदन्य एव शतानन्दसूनुरभिनन्दोऽस्ति. ग्रन्थोऽयं पण्डितापरनाम्नि काशीविद्यासुधानिधौ मासिकपत्रे १८६७ क्रिस्ताब्दे प्रथमद्वितीयभागयोर्मुद्रितोऽपि न सर्वसुलभो नातिशुद्धश्चेति पुनरेतस्य मुद्रणमस्माभिरूपकान्तम्. तत्र काश्मीरकपुस्तकस्य प्रतिरूपकमेकं पुस्तकं प्रायः शुद्धमष्टत्रिंशत्पत्रात्मकं श्रीपण्डितसरयूप्रसादशर्मणां सकाशादधिगतं क-संज्ञकम् . अपरं चतुरशीतिपत्रात्मकं १८०९ मिते विक्रमाब्दे लिखितं नातिशुद्धं पण्डितमुद्रितपुस्तकस्य सहोदरमिव राजगुरुपर्वणीकर नारायणभट्टानां संग्रहात्प्राप्तं ख-संशकम् । एतत्पुस्तकद्वयाधारेणैतन्मुद्रणमारभ्यत इति शिवम्, २. 'क्रामतः' ख. ३. 'जगतांगुरोः' ख.