पृष्ठम्:कादम्बरीकथासारः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
कादम्बरीकथासारः

किं वा श्रोतुं यदि श्रद्धा चरितं मामकं शृणु ।
इत्युक्ता शोककलुषा सा वक्तुमुपचक्रमे ।। २१ ।।

राजन्नप्सरसो नाम कन्याः सन्ति सुरालये ।
तासां जगप्रसिद्धानि चतुर्दश कुलानि हि ॥ २२ ॥

एक भगवतः स्वान्तात्समुत्पन्नं प्रजापतेः ।
वेदेभ्योऽन्यत्समुद्धृतं अन्यदग्नेः समुत्थितम् ॥ २३ ॥

प्रसून पवनादन्यदमृतादन्यदुत्थितम् ।
अन्यजलान्तरातमन्यदर्काद्विनिर्गतम् ।। २४ ।।

अम्यनिष्पतितं सोमादन्यङ्गमेः समुत्थितम् ।
जातं सौदामिनीभ्योऽन्यदपरं मृत्युना कृतम् ॥ २५ ॥

अपरं विधजयिना निर्मिते मीनकेतुना।
सुते मुनिररिष्ठा च द्वे दक्षस्य बभूवतुः ॥ २६ ॥
 
ताभ्यां कुलद्वये जाते गन्धर्वैः सह भूपते !
कुलन्यप्सरसामेवमेतान्यत्र चतुर्दश ।। २७ ।।

चित्रसेनमुखः पुत्रा मुनेः पञ्चदशभवन् ।
तेषां चित्ररथो भ्राता प्रसिद्धः पोडशोऽभवत् ।२८ ॥

गन्धर्वभूमिमखिलां अशद्धजबलेन सः ।
अधित्यकां स्ववीयेण मरुत्वानिब मैरखीम् ॥ २९ ॥

इतश्च नाविदूरे हि हेमकूटो नगाधिपः ।
निवासस्तस्य देवस्य कैलास इव धूर्जटेः ॥ ३० ॥


२८. मुने:=धुर्हतया दक्षदुहितैः ।
२९. मैच खं मेऽसम्बन्धनीमधिन्यमित्यर्थः ।

5