पृष्ठम्:कादम्बरीकथासारः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
श्री त्रिविक्रमविरचितः

त्वदृष्टिपातमात्रेण जनोऽयं त्यक्तकल्मषः। ।
अस्मिन् जने भगवति ! प्रीतायां स्वयि किं पुनः ॥ ७९ ॥

इयुक्त प्राञ्जलिर्भतया नृपः शिष्य इवादरात् ।
व्रजन्तीमनुवव्राज विद्यामिव विचक्षणः ॥ ८० ॥

हन्त मामियमालोक्य कैलासं नाधिरोहति ।
दिवं नोपतिता वेगानान्तर्धत्ते स्वमायया ॥ ८१ ॥

इत्येवं कुतुकोत्तरं च विमृशंस्तामन्वगेव व्रज
नीरन्धैर्नपतिः तमाललाहनैय्यक्तसूर्योदयम् ।
अन्योन्यस्सिरबद्धवैरविमुखैः सत्वैः सदाधिष्ठितं
साक्षाद्रसुपुराभमाश्रमपदं शान्तं प्रपेदे शनैः ॥ ८२ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृतौ कादम्बरी
कथासारसंग्रहाख्ये काव्ये षष्ठः सर्गः