आस्तीर्यनलिनीपत्रमुपकूलं शिलातले।
उपधायोत्तरीयं स्वं विश्रान्वै निषसाद सः ॥ ६१ ॥
तन्त्रीकणितसन्मित्रं तालनादसमन्वितम् ।
चन्द्रापीडोऽथ शुश्राव गीतध्वनिममानुषम् ॥ ६२ ॥
उत्कष्ठ 1श्रतरूढीवो निश्चलस्तब्धलोचनः ।।
सन्यस्तशष्पकबलो वाहतां दिशमैक्षत ॥ ६३ ॥
चन्द्रापीडोऽय जिज्ञासुः गीतप्रभवकारणम् ।
दतपर्याणमर्वन्तमारुद्य सहसा ययौ ॥ ६४ ॥
ततः कैलासपादस्य नाम्ना चन्द्रप्रभस्य सः ।
तलभागे स्थितं शून्यं सिद्धायतनमैक्षत ॥ ६५ ॥
प्रविश्य सहसाऽद्राक्षीचन्द्रापीडश्चतुर्मुखम् ।
भगवन्तमुमाकान्त भक्तार्तिहरणक्षमम् ।। ६६ ॥
ततोऽवतीर्य तुरगासेवनेनोपसृय च ।
चन्द्रापीडो नमश्चक्र देवं चन्द्रार्धशेखरम् ॥ ६७ ॥
दक्षिणां मूर्तिमाश्रित्य तस्याभिमुखमास्थिताम् ।
जटागोरोचना पिन्ना दधानामंसलम्बिनीः ॥ ६८
|
1. शूफि इनि मातृका ।।
१७. तेबनेन पादचारेण उपस्य समीपं गत्व, अथ च सविनयं चन्द्रापीडः
शंकरसमीपं गत्वा नमश्चके इति तापर्यम् तेवनपदम्य एलशर्धकवे रामयणसंवाद
यथा ---
- गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
- तेवनेन चनं गत्वा नदीतीर्वा गहूदकाः ॥“
अत्र च तिलकम्याख्या –“तेनं पादबरः तेन वनं गत्वा इत्यर्थः । " इति
|