इति निश्चित्य तृषितो जलन्वेषणतत्परः ।
शालूककवैराकीर्णमाद्रीमध्वानमैक्षत ॥ ५१ ।।
उपजातजल्पशतं गत्वा तेनैव वर्मना ।
स विवेश वनं रम्यं मेघवृन्दमिवांशुमान् ॥ ५२ ॥
तन्मध्ये धरणीपालः श्रान्तार्तिहरणक्षमम् ।
रिक्तो मित्रमिवच्छोदमच्छोदं दृष्टवान्सरः ।। ५३ ॥
अवदानैर्यदा भाति पयोभिः पूरितान्तरम् ।
कल्पान्तदहनज्वालाद्रवीभूतमिवाम्बरम् ॥ ५४ ॥
उकुचकुमुदाकीर्ण भाति यद्विमलोदकम् ।
वसुन्धरायां पर्यस्तं स तारकमिवाम्बरम् ॥ ५५ ॥
आपीयमानसलिला यत्र भान्ति मतङ्गजाः ।
पयोनिधे पयः पातुमवतीर्णा इवाम्बुदाः ॥ ५६ ॥
स्फाटिकद्रवसङ्काशे कैयसद्रवसोदरम् ।
अपारमतिगम्भीरं दृष्ट्वा तन्मुमुदे नृपः ।। ५७ ।।
सरो विगाश्च 1सहसा पीततोये पिपासितम् ।
चन्द्रापीडः परिश्रान्तं त्रपयामास वाजिनम् ॥ ५८ ॥
स तीरतरुलाखायां बध्वा त कविकगुणैः।
शप्पं कृपाणिकालनं व्यक्षिपत्तस्य सन्निधौ ॥ ५९ ॥
निरन्तरेणाञ्जलिना पयः पीत्वा च शीतलम् ।
ज्ञात्वा सोऽपि यथाकामं सरस्तीरं समासदत् ॥ ६० ॥
1. मनसा पोतनीयं पि असित इति मतृका ।
५१. शल्छदैः तामर सकन्दैः। ५३. अच्छोदं=नर्मलोदकं एतदाख्यं सरथ ।
५९, कविव=खलीनम् । शष्यं=बालतृणम् " भ्रष्थं बालतृणं घासः " इत्यमरः ।