पृष्ठम्:कादम्बरीकथासारः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
कादम्बरीकथासारः

क्षणं निषद्य तत्रैव जनकस्याज्ञया पुनः ।
वत्सलज्जननीं द्रष्टुं कुमारोऽन्तः पुरं ययौ ॥ ७० ॥

आनन्दबाष्पप्रसरेरापूर्णनयनायुजाम् ।
वात्सल्यनिन्नहृदयां जनयित्र ननाम सः ॥ ७१ ॥

पुतं ततः परिष्वज्य प्रणतं प्रस्नुतस्तनी ।
जननी समुपाजिघ्रन्मूर्तेि तस्य मुहुर्मुहुः ॥ ७२ ॥

वैशम्पायनमालिष्य प्रवणं विनयादभृशम् ।
अङ्कमारोपयामास पुत्तं सा पुत्रवत्सला ॥ ७३ ॥

तत्र नातिचिरं स्थित्वा सर्वाण्यन्तःपुराण्यपि ।
परमानन्दयामास प्रत्येक दर्शनेन सः ॥ । ७४ ॥

निर्गम्य द्वारदेशस्थं आहेन्द्रायुधं पुनः ।
शुकनासमझौ द्रष्टुं तत्पुत्रण सम ययौ ॥ ७५ ।।

ततः परिवृतं प्राश्नःस्नेहातातमिवापरम् ।
ववन्दे जातभक्तिस्तं मूर्धा दूरान्तेन सः ॥ ७६ ॥

उत्थाय सोऽपि सौवर्णादबिलम्बितमासनात् ।
प्रीतिस्निग्धेक्षणो गाढं कुमारं परिषस्वजे ॥ ७७ ॥

स्थित्वा ततः क्षणं तूष्णीं आविःस्मितमुखाम्बुजः ।
शुकनासः सुखासीनं कुमारमिदमब्रवीत् ॥ ७८ ॥

त्वं तातमनुजातोऽसि विषया विक्रमेण च ।
तथापि विनयान्नीचैः कुमारः परिदृश्यते ॥ ७९ ॥

इत्युक्त्वा तं समभ्यर्चार्य स्वयमाभरणादिभिः ।
परं प्रीतमनास्तूर्णं शुकनासो व्यसर्जयत् ॥ ८० ॥