पञ्चमः सर्गः
मातुर्मनोरथेनैव स्नेहेन जनकस्य च ।
भयेन सह शणामथ संववृधे सुतः ॥ १ ॥
प्रशस्तमे दिवसे सूनोः स्वविभवोचितम् ।
राजा प्रकृतिभिः साचे चक्रे चौलं यथाविधि ।। २
कुमारस्य ततो राजा विद्यागृहमुदारधीः।
बहिर्नगरमुत्साल्मनुसिप्रमकारयत् ॥ ३ ॥
विद्याविनयशालिभ्यो गुरुभ्यः शोभने दिने ।
अर्पयामास राजा तं वैशम्पायनपूर्वकम् ॥ ४ ॥
1पञ्चाशदक्षरमयीं मातृकां मन्त्ररूपिणीम् ।
चन्द्रापीडो गुरुमुखाद्ववेद विनयान्वितः ॥ ५ ॥
चतुर्दशसु विद्यासु चतुःषष्ट्यां कलासु च ।
प्रतिष्ठां परमां लेभे लक्ष्यलक्षणयोश्च सः ॥ ६ ॥
कुशप्रतीक्ष्णया बुद्धया गुरौ भक्त्यनृपा१त्मजः।
पदवाक्यप्रमाणेषु परं पारङ्गतोऽभवत् ॥ ७ ॥
चलणे कक्ष्यया बध्वा चण्डिकामभिवाद्य च ।
पुरस्कृत्य गुरोराज्ञामस्त्रयोम्यां चकार सः ॥ ८ ॥
मरीचिकां विवेदासौ तथा वैतालिकीमापि
अङ्गीचकार भूपालीमपि भृङ्गिमतं तथा ॥ ९ ॥
1. पशदशाक्षर इति मतृका । १. नजारमजः इति मातृका