पृष्ठम्:कादम्बरीकथासारः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
श्री त्रिविक्रमविरचितः

    
अद्य मे सफल जन्म सफला ब्राह्मणाशिषः ।
प्रसन्नो भगवानद्य भक्तिगम्यो महेश्वरः ॥ ७२ ॥

इत्युक्त्वा सहसालिप्य शुकनासं प्रियोत्तरम् ।
तदुत्तरीयमाकृष्य तस्मै प्रादान्नरोत्तमः ॥ ७३ ॥

प्रभाकिस्मीरितं दिव्यमनर्घमणिककणम् ।
(उन्मुच्यम) ददौ तस्मै स्वकरस्थं महीपतिः ॥ ७४ ॥

शुकनासगृहं गत्वा पौरजानपदान्वितम् ।
अकारयन्नृपःस्नेहादुत्तरोत्तरमुत्सवम् ॥ ७५ ॥

अथ प्राप्तेऽहि दशमे मुहूर्ते शुभशंसिनि ।
कृत्वा ब्राह्मणसाद्रत्नं गः सुवर्णं च केटिशः ॥ ७६ ॥

चन्द्रापीडप्रसादेन लब्धमात्मभवं नृपः।
चन्द्रबिम्बाननं नाम्ना चन्द्रापीडं चकार तम् ॥ ७७ ॥

शुकनासः क्रियाः कृत्वा समस्ताः श्रुतिचोदिताः।
वैशम्पायन इत्येवं चक्रे नामात्मजन्मनः ॥ ७८ ॥

इति मनुजपतिः प्रपूर्णकामः
 सुतपरिवर्धनजागरूकचेताः ।
अगणितबलवैरिराज्यलाभः
 कतिचिदहान्यतिवाहयांबभूव ॥ ७९ ॥

इति श्रीमत्सक्लविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
राजराजस्नः त्रिविक्रमस्य कृतौ कादम्बरीक्था
सारसंग्रह्ख्ये काव्ये चतुर्थः सर्गः