पृष्ठम्:कादम्बरीकथासारः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरचितः

प्रकममुष्णातुरिवाधिशेते
पय.पणं धिं भगवान् मुकुन्दः ॥ ८० ॥

यस्यामिता कीर्तिरुदारकीर्ते
र्माति स्म लोकत्रितये मितेऽपि ।
आदर्शबिम्बे महती गजस्य
मूर्तिः प्रसन्ने प्रतिबिम्बितेव ॥ ८१ ॥

कुलाद्रिकुजेषु विहारिणीनां
प्राणेश्वरैः किन्नरसुन्दरीणाम् ।
क्षौमे हृते सत्यपि यस्य कीर्ति
स्तिरश्चकार ह्रियमाकुलानाम् । । ८२ ॥ ।

विधातृमण्डेन्दुकलअस्थिमाल्य
मन्दाकिनीभस्मरूचिच्छलेन ।
यत्कीर्तिपूरेण महेश्वरोऽपि
नितान्तमात्मानमञ्चकार ।। ८३ ।।

भिक्षाशनानां धृतकर्पराणां
चर्माम्बराणां च सदाशिवान्यम् ।
प्रत्यर्थिनां यस्य यशःप्ररोहैः
कैलासतां भूमिधरास्समीयुः ॥ ८४ ॥ ।

चुलबद्रिकूटे लिखितं गुणशैः
विद्याबैरैः पर्वतधातुरागैः ।
सकौतुकं यस्य भुजापदान
मवाचयन्नप्सरसां कुल्चन ।। ८५ ।।