पृष्ठम्:कादम्बरीकथासारः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३

॥कादम्बरीकथासारः

एवं वदति हारीते जाबालिध विलोक्य माम् ।
स्वस्यैवाविनयस्यानुभूयते फलमित्यशात् ॥ ३८ ॥

सा तापससमज्या तच्छुत्वा सज़ातकौतुकम् ।
त्रिकालज्ञाननिपुणं जाबालिमिदमब्रवीत् ॥ ३९ ॥

भूभाविभवृतं कृतं दिव्येन चक्षुषा।
हस्तमैौक्तिकवत् द्रष्टुं त्वमेव भगवान् प्रभुः ॥ ४० ॥

इह वाऽमुत्र बानेन कीदृशोऽविनयः कृतः ।
किमर्थं वेति तत्सर्वमावेदयितुमर्हसि ॥ ५१ ॥

इति निर्बन्धतः पृष्टः तया परिषदा मुनिः।
आबभाषे पुनरिदं वाक्यं वाक्यविदां वरः ॥ ४२ ॥

वक्तव्यमिदमाख्यानभरुपशेषं च वासरम् ।
सन्ध्याक्दनकालोऽय भवतामतिवर्तते ॥ ४३ ॥

अस्मिन् जनुषि वान्यस्मिन्यदनेन कृतं यथा।
कृताशनानां तद्रा वक्ष्यामि भवतामहम् ॥ ४४ ॥ ।

इत्युक्ता सहसोत्थाय साथै संवैर्महर्षिभिः।
अपराचितं कृत्ये यथाविधि चकर सः ॥ ४५ ॥

ततः पश्चिमपाथोधौ पपात रविमण्डलम्।
वरुणानीकरभ्रष्टमणिक्यचषकोपम् ॥ ४६ ॥

अस्ताद्रिसानुपर्यस्तमर्कविम्बं विदिद्युते ।
वासुकेर्मथनक्षोभात् फणारलमिव च्युतम् ॥ ५७ ॥

पाटल भास्वरो विम्बं लममर्णस्युदन्वतः ।
हरिवक्षःस्थळासक्तकौस्तुभश्रियमा:रत् ॥ ४८ ॥


]. सदारश्न इति मातृ ।