श्री त्रिविक्रमविरक्तिः
अद्यापि तत्पञ्चसरः शुद्धापमतिदूरतः ।
भूयन्ते राजहंसानामस्फुटनि तानि यत् ॥ १० ॥
पिपसात्यन्तसनानि दुर्बलन्यङ्गकानि मे ।
पदादेकं पदमपि नलं गन्तुमितः परम् ॥ ११ ॥
परं सीदति चित्तं च प्रभुरस्मि न चात्मनः।
चक्षुरत्यन्धतामेति हन्त ! किं करवाण्यहम् ? ॥ १२ ॥
अनिच्छतः किं मृन्थं मे विधिरद्योपपादयेत् ?
मयि सञ्चिन्तयोरेवं पिपासावशवर्तिनि ॥ १३ ॥
जाबालिनभधेयस्य मुनेरासन्नवर्तिनः ।
पुतो हारीतको नाम सिवपुस्तसरोऽभ्यगात् ॥ १४ ॥
स निशम्य दयालुर्मामनाथमतिदुःखितम् ।
आसन्नवर्तिनं प्रेचे कंचिन्मुनिकुमारकम् ॥ १५॥
अये ! शुकशिशुः कश्चिदयमापदमागतः ।
दीनमेनं समालोक्य दूयते हृदयं मम ॥ १६ ॥
अनाविर्भूतपक्षोऽये पतित . किं वनस्पतेः ।।
आहोस्विद्वैनतेयास्यदद्य किं धरणीं गतः ? ।। १७ ।।
सान्नकर्षे सदाक्लेशात् 'दीर्घदीर्घ वशित्यसौ ।
विवृणोति मुहुश्चञ्चुपुट्टमामीलितेक्षणः ॥ १८ ॥
श्रीवामपि न शक्नोति सन्धारयितु मामनः ।
अयमेवं ’स्थितः स्याच्चेन्म्रियते नात्र संशयः ॥ १९ ॥
1. दीर्घ मातृका । 2. मगताम् इति मातृका । 3. स्थितं स्यात् इति मातृका ।