श्री त्रिविक्रमविरचितः
अनन्तपर्णयुक्तापि सप्तपर्योपशोभिता।
भयङ्करापि ललिता पवित्रा पुष्पयपि ॥ ८ ॥
यत्र रामशरोकृतरक्षोरक्तोदकाट्छुतः ।
वसन्ति तरवोऽवापि तद्रागं पढ़वच्छलत् ॥ ९ ॥
तस्यां स्तम्भितविभ्याद्रेः चुलिकीकृतवारिधेः।
अस्याश्रमपदं स्यमगस्त्यस्य महामुनेः ॥ १० ॥
तस्याश्रमस्य निकटे हंससारससलम् ।
कादम्बकुलचञ्च्वप्र'दष्टकिञ्जल्कपिञ्जरम् || ११ ॥
उद्भित्रपद्मविगलन्मधुचन्द्रकिलोदकम् ।
पम्पानामातिगम्भीरमति पझसरोवरम् ॥ १२ ॥ ।
पश्चिमे पद्मसरसः तस्य तीरे समुन्नते ।
अवस्थितो दिशो व्याप्य शाखाभिः शाल्मलीतरुः ॥ १३ ॥
शाखासहस्रसंच्छनहरिदन्तो विभाति यः ।
युगान्तताण्डवव्याप्तबाहुषण्ड इवेश्वरः ।। १४ ।।
आमूलमादनेकाभिर्लताभिः परिवेष्टितः।
यः पुराणतया व्याप्तः शिराभिरिव दृश्यते ॥ १५ ॥
पतगैरिव शाखासु लीनैरम्बुभरालसैः ।
यो नूननैरपि धनैर्दृष्टशिखरेन्नतिः ॥ १६ ॥
1. चकवर्ग इति मातृछ !
८, अनन्तपर्णयुकवेऽपि सप्त गर्णयुक। इति विरोधः । सप्तरणेः कदलो विशेष इति
तपरकरः । पुष्पवती रजखलापि पवित्रेति दिरोधः ! नानाविधपुष्प वेभिश्च इति तपरिसरः । ११. मधुगङ्गोदकं मधुना चन्द्रकिनं जडे तैलंपेिन्दुप्रपेगेन चित्रचित्रमण्डल अरकिलिमुदकं यस्य तदित्यर्थः।।