पृष्ठम्:कादम्बरीकथासारः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कादम्बरीकथासारः ११ द्वितीयः सर्गः। अथ तद्वचनं श्रुत्वा क्षणं तूष्णीमिव 'स्थितः । कुतूहलं यदि श्रोतुं श्रूयतामिति सोऽभ्यधात् ।। १

अस्ति विन्ध्याटवी नाम नानामृगसमाकुला । नानाविधल्तावृक्षॆ: संछादितदिगन्तरा ॥ २ ॥

तमालतालहिन्तालपूगपुन्नागशोभिता । केतकी केसराशोकनारिकेलमनोरमा ॥ ३ ॥

कपित्थबिल्वखदिरफ्लाशक्टभासुरा । कर्णिकारकरजाव्रकिंकरातमनोरमा ॥ ४ ॥

कचित्प्रलयवेलेव वराहोत्खातभूतत्य । कचित्कालीतनुरिव प्रचलखड्गभीषणा ॥ ५ ॥

कचिद्विष्णोरिव तनुःतमालश्यामलामा । नगरीव विराटस्य कचित्कीचकसंवृता ॥ ६ ॥

कचिन्मूर्तिरिवेन्द्रस्यानेकनेतूसमावृता। क्कचिद्रतस्थेव जटादर्मवल्कलधारिणी ॥ ७॥

1. स्थितम् इति मातृका। ४. किकिरातः अशोकमेदः शुकानामुत्तरवर्णयिष्यमाणत्वात् । ५. वराहेण आदिवराहेण उस्खातं भूतलं यस्याः सा, पक्षे बराहैः सूकरैः उस्वातं भूतलं यस्याः सा । खड्गः मृगविशेषः पझेसिव । ६. तमालपत् श्यामला प्रमा यस्या: सा, पक्षेतमालैः पक्षविशेषैः श्यामकप्रमा इस्पः । कीचकोतदायैः पुवैः संता, पक्षे मारुतपूर्णरन्धैः वेणुमिरित्यर्थः । ५. नेत्रं छेचनं, पक्षे पक्षमूलम् (Root)। जटा सटा पक्षे शिफाय च ।