पृष्ठम्:कादम्बरीकथासारः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

xiv

पञ्चदशाक्षरमयीं मातृकां मन्त्ररूपिणीम् ।।
चन्द्रापीडो गुरुमुखाद्विवेद विनयान्वितः ॥ ५-५ ।।'

 अत्र पञ्चदशपदं बहुवारमालोचच्य पञ्चाशदिति संशोधितः। एवं शोधिता एव पाठा मूले मुद्रिताः । मातृकापाठास्तु ग्रन्थाधोभागे प्रदर्शिताः। यत्र कचन केवलं वर्णमात्रमथवा द्वयमेव मूले तृटितं तत् कुण्डलिना प्रादर्शि । कचित्कचित पाठकसहृदयानां सौकर्याय टिप्पण्यपि संयोजिता । एवं महता परिश्रमेण शोधितोऽपि मातृकापाठः कचित् पुनः पर्यालोचनायां क्रियमाणायां शोधनानर्ह । इव प्रतिभाति । तद्यथा --

हारं हासं च नीहारं तारं हारं निशाकरम् ।
स्वदेहप्रभया कामं न्यक्कुर्वाणामिव स्थिताम्"" ।।'६-६९ ॥

 अत्र चन्द्रापीड: महाश्वेतायाः प्रथमदर्शनवेलायामुपरिनिर्दिष्टदिशा उत्प्रेक्ष- याम्बभूव । अत्र प्रथमहारशब्दसद्भावात् द्वितीयो हारशद्वस्तारशदेन साकम पनीतः ; तत्कृते घनसारशब्दो निवेशितब्ध । अद्य पुनः पर्यालोचयता मया इदमभिमन्यते यत्प्रथमो हारशब्दो हरसम्बन्धीत्यर्थको हासस्य विशेषणीक्रियते चेदांजस्येनान्वेतुं शक्यते इति । एवं महता परिश्रमेण शोधिता अपि पञ्चषाः पाठा मुद्रणकाले शोधकानां तदायत्तामपि दृष्टिमपवार्य वञ्चयामासुः । तदधोनिर्दिष्टपट्टिकादिशा पाठकसहृदयाः परिशीलयितुमभ्यर्थ्यन्ते ।

 सोऽयं त्रिविक्रमः किं कालीनः किं देशीय इति विशदं न विज्ञायते । अयं राजराजसूनुं सकलविद्याधरचक्रवर्तिशिप्यमात्मानं कथयतीति प्रागेवाभिहितम्। विद्याधरचक्रवर्तिनामानस्त्रय आसन् विद्वांस इति श्री एम्. कृष्णमाचार्याः स्वकीय संस्कृतवाङ्मये (History of Sanskrit Literature) न्यरूपयन् । तत्रत्य विषयसंग्रह: :--

 होयशलराजास्थानेषु बहवो विद्वांसः अवर्धन्त । तेषु त्रयो विद्याचक्रवर्ति- नामधेयाः । तत्र प्रथमो विद्याचक्रवर्ती द्वितीयबीरभल्लालस्य (1172-1219 A. D.)