पृष्ठम्:कादम्बरीकथासारः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

xi

        XI

अस्यार्थस्य सारं संगृह्वन्नभिनन्दः --

"तस्यास्ति पश्चिमे तीरे जीर्णः शाल्मलिपादपः ।
आरोहपरिणाहाभ्यां व्याप्तव्योमदिगन्तरः ॥

अभि. का. क. सा.I. ५९

. त्रिविक्रमश्चः--

"पश्चिमे पद्मसरसः तस्य तीरे समुन्नते ।
अवस्थितो दिशो व्याप्य शाखाभिः शाल्मली तरुः ॥
शाखासहस्रसंच्छन्नहरिदन्तो विभाति यः।
युगान्तताण्डवव्याप्तबाहुषण्ड इवेश्वरः ॥

आमूलाग्रादनेकाभिर्लताभिः परिवेष्टितः ।
यः पुराणतया व्याप्तः शिराभिरिव दृश्यते ॥

पतगैरिव शाखासु लीनैरम्बुभरालसैः ।
यो नूतनैरपि धनैरदृष्टशिखरोन्नतिः ॥

त्रिवि. का. क. सा. II. १३-१६.

 अत्र अभिनन्दः "आरोहपरिणाहाभ्यां व्याप्तव्योमदिगन्तरः" इत्येकेनैव विशेषणेन मूलकादम्बरीकलितं शाल्मलीतस्माकलयति। त्रिविक्रमस्तु मूलकादम्बर्या बाणचित्रितं शाल्मलीपादपं प्रायस्तैरेव पदैः पाठकसमक्षे यथावदवरोपयति ।

 अत्र चायमपरो विशेषः । वात्स्यायनो नागरिकवृत्ते नित्यनैमित्तिकभेदेन द्वेधा विकल्प्य नित्यमभिधाय नैमित्तिकं वदन् :--

 "घटा निबन्धनं गोष्ठीसमवायः, समापानकं उद्यानगमनं समस्याः क्रीडाश्च वर्तयेत्" इत्याह । समग्री भवन्ति नागरिका यासु ताः समस्याः इत्यर्थः।। ततः समस्याः क्रीडाः संगृह्य देश्यास्ताः क्रीडाः कथयन्ः--