पृष्ठम्:कादम्बरीकथासारः.pdf/१५५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३१
कादम्बरीकथासारः


लकथा सा नभसीव सिन्धु
लेभे न किञ्चिन्मनसः प्रसादम् ॥ ११ ॥

तन्व्याः प्रकृत्या नरलोकनाथ !
विशेषतस्त्वद्विरहाकृशाञ्जयः।
अन्तर्नमाति स मनोभवोऽस्या
धन्द्रोदयापूरमिवाम्बुराशेः ॥ १२ ॥

मन्दानिलैः कोविकृजिश्च
श्रव्यैर्विषीकणिधिरार्जयाः।
जज्वाल सन्तापकरो मनोभू
राज्यैर्हतो वह्निरिव प्रणीतः ॥ १३ ॥

सखी प्रतीकारशतैः कुमारी
माश्वासयत्वद्विरहेण खिन्नम् ।
वोलतां तिग्मकरेण तप्त
मुपन्नहीनामिव मे1घमाला ॥ १४ ॥

सा दुःखहेतुं नृपतेर्निवेद्य
समासतस्तच्चरितं प्रगल्भ ।
शरन्मयूरीव विलुसकेका
सचः परिम्लानमुखी व्यरंसीत् ॥ १५ ॥

स हेमकूटं च सखीजनं च
कदम्बरीमुत्तमसौकुमार्याम् ।
अनुस्मरंस्तद्गतभाववृत्तिः
द्विान्कथञ्चिद्दिवसान्यनैषीत् ॥ १६ ॥

1. मेघमालमिति मातृ ।