पृष्ठम्:कादम्बरीकथासारः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
श्री त्रिविक्रमविरचितः


सा रञ्जयन्ती चरणारविन्दं
महीपतेर्मौलिमणिप्रभाभिः ।
तेनैव सार्ध प्रणनाम मूर्धा
स्वस्थानसामिच्युतकर्णपूरम् ।। ६ ॥

उत्थाप्य तामुत्कलिकाधिरूढः
पश्यन्दृश पक्ष्मलल्या कुमारः ।
सरख्या समं चित्ररथात्मजायाः
पप्रच्छ वातं वदतां पुरोगः ।। ७ ।।

समे सखीभिः समदुःखभाग्भिः
देव्या मनुष्येश्वर! विद्धि वार्तम् ।
नितान्तमेकान्तसुखैकहेतुं
बिना भवद्दर्शनभागधेयम् ॥ ८ ॥

त्वां प्रस्थितं देव ! समिद्धरागा
देवी भवदूतमुखान्निशम्य ।
अनुप्रयातेव विलुप्तसंज्ञा
प्राणैधिरेण स्तिमितावतस्थे ॥ ९ ॥

आश्वास्यमानाथ सखीजनेन
रागेण गाढं त्वयि रूढभावा ।
निनिन्द चात्मानमनिन्दितानी
मुहुर्मुहुर्मुष्कृतिभाजनं सा ॥ १० ॥

तदा प्रभृत्यन्तदीर्णरागा
नृत्युका पाण्डुतराननश्रीः ।