पृष्ठम्:कादम्बरीकथासारः.pdf/१५०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
श्री त्रिविक्रमविरचितः


दृष्ट्वा कुमारं सरबाणविद्धां
बालां पतन्तीमवशं पृथिव्याम् ।
आश्वासयत्कापि निमीलिताक्षीं
मोहेन चेलाञ्चलमस्तेन ॥ ७६ ॥

मुदं यय वीक्ष्य न परकान्ता
कादम्बरीसक्तमानाः कुमारः
न पझिनीं प्राप्य हि भोगयोग्या
मान्यामलिर्वाञ्च्छति पुष्पजातिम् ॥ ७७ ॥

अनन्यनिर्दयितानुरागा
पराङ्मुखोऽभूप्रमदाजनेषु ।
न चातकः सन्निधिमाप्नुवत्सु
स्पृहां विधते हि शरद्धनेषु ॥ ७८ ॥

आचालजैरथ राजसूनु
मवाकिरत्पैौरपुरभिलेकः ।
संवर्तपाताः स्वपदात्पतद्भि
नक्षत्रवृन्दैरेव मुक्तसानुम् ॥ ७९ ॥

1महीक्षितः तच्चरणारविन्दं
दूरादहंपूर्विकय समेताः।
ववन्दिरे भक्तिविशेषनम्नै
पर्यस्तचूड़ामणिभिः शिरोभिः ॥ ८० ॥

वैतालिकैः श्राव्यमुदारवाग्भिः
2संस्तूयमानस्वभुजावदानः ।


1. भक्षिततचर इति मातृका । 2. संसूयमानः स्वभुजावदानः इति मातृका।