पृष्ठम्:कादम्बरीकथासारः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२५
कादम्बरीकथासारः


इति स्मरार्ता 1गृहशारिकां स्वं
मनोरथं शिक्षयति स्म काचित् ॥ ७० ॥

असिन्कुमारप्रतिमे कुमारे
वामोरु ! भावस्तव चेद्वदेति।
बाला रहः सम्मितमालपन्तीं
माल्येन धात्रीं निजघान काचित् ॥ ७१ ॥

काचित्कुमाराय विलोलतरै
भ्रूभङ्गसंरंभविदोषरभ्यैः ।
अशषमन्तगेतनजात
कटाक्षपातैः कथयांबभूव ॥ ७२ ॥ ।

काचित्कुमारं सुकुमारमूर्ति
नेत्रेण निष्पन्दिततारकेण ।
पिबन्त्यतृप्त हृदयेन काम
माखण्डलाय स्पृहयांबभूव ॥ ७३ ॥

नृपस्य नेत्राभिमुखं कदाचि
दिष्ट्या समापतिगतेऽक्षिपाते ।
हीसन्नताकष्टविहङ्गयष्टिः
पादेन भूमिं विलिलेख काचित् ॥ ७४ ।।

यथाभिलाषं नरनाथसूत्र
दृष्टाभिसन्धिं मनसाऽनुभूय ।
सुखेन काचिन्मुकुलायताक्षी
सखीं समालिङ्ग्य चिरेण तस्थौ ॥ ७५ ॥


1. शारिका इति मातृछ।