पृष्ठम्:कादम्बरीकथासारः.pdf/१४७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
कादम्बरीकथासारः


हंसात्मजायै च वदेति [१]कञ्चि
न्महीभुजङ्गः कथयांबभूव ।। ५९ ।।

पश्चात्त्वमस्मत्कुलराजधानीं
सेनां शनैः श्रान्तिमतीं नयेति ।
उक्ता कुमारः शुकनासमूनु-
मुत्तोरणामुज्जयिनीं प्रतस्थे ॥ ६० ॥

अग्रेसरश्चापभृतां नृपाणा-
मुत्सालमभ्रङ्कषगोपुराणम् ।
अध्यासितं द्रविडधार्मिकेण
मार्गे स चण्डीभवनं ददर्श ॥ ६१ ॥

तमग्रगण्यं विकृताकृतीनां
साक्षात्कलिं मृतमिवावलोक्य ।
सविस्मयो विस्मयनीयकीर्ति
जेहाास मन्द जगदेकवीरः ॥ ६२ ॥

श्रन्तं स तस्मिन्विनिवेश्य सैन्ये
तीजतपक्लान्तमुखारविन्दः ।
स्मरन्प्रियामेव विलुप्तधैर्यः
क्षप कथञ्चिद्गमयांबभूव ॥ ६३ ॥

स तत्र तत्र क्षितिपाललोकै
रभ्यर्चितः केश्चिदहोभिरेव ।
प्रासादशृङ्गोलिखिताम्बुवाहां
प्रकारिणीमुज्जयिनीमवाप ॥ ६४ ॥


  1. कश्चिदिति मातृका ।