पृष्ठम्:कादम्बरीकथासारः.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
श्री त्रिविक्रमविरचितः


सहाम्यया शक्रसमानकीर्तिः
जङ्गल ! कच्चित्कुशली गुल्में ।
मनीषिणा सत्यपराक्रमेण
राजन्वती येन समुद्रनेमिः ॥ ५४ ॥

1इत्यूचिवांसं तमुवाच दूतः
सर्वत्र वातं त्वमेवहि नाथ !
अन्यत्र चक्षुष्फलमूलहेतो
स्त्वद्वक्तृसन्दर्शनभागधेयात् ॥ ५५ ॥

गुर्वाज्ञया निष्टुरया चिशी
दूरं प्रिये ! त्वामपहाय यातः ।
नभस्वता चण्डबलेन वेगा
न्मृणालिनीं रन्तुमना इवालिः ॥ ५६ ॥

आज्ञामलङ्कयामवगम्य पित्रो
गच्छामि कृच्छाद्भवतीं विहाय ।
त्वमावयोः प्रेमवतोर्वरोरु
रथाङ्गनानोरिव विद्धि भावम् ॥ ५७ ॥

श्वासोऽस्ति चेत्त्वां पुनरागतोऽस्मि
दृष्टं प्रिये! मद्विरहेण दीनाम् ।
म्लानिं दिवा भानुमता प्रपन्नां
कुमुद्वतीं नक्तमिवामृतांशुः ।। ५८ ।।

सन्देशमेवं मम रागवत्यै
प्रयासिनधित्ररथात्मजायै ।


1. इत्यूचितां सन्तमिति मतुश्च ।