पृष्ठम्:कादम्बरीकथासारः.pdf/१४०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
श्री त्रिविक्रमविरचितः


स दक्षिणां दीधितिमानिवाशां
जगाम कैलासतटेन धीरः ॥ २१ ॥

नृत्यन्तमग्रे निजवल्लभाया
वितत्य बहें विपिने मयूरम् ।
मुदं ययैौ वीक्ष्य कुमारकाः
कुमारपत्रं सदय कुमारः ॥ २२ ॥

स सल्लकीमभ्रमुद्रस्तदत्तां
क्रोधादनादृत्य 1धरेन्द्रसानौ ।
दृष्ट्वा स्वविचं परिमाणमुचैः
कुर्वाणमैरावणमीक्षते स्म ॥ २३ ॥

हरौपवाड़ी हसनुकल्पः
कुर्वन्तमद्रे तटघातलीलम् ।
साक्षाद्वपुष्मन्तमिवावलेप
भने कुहन्तमवेक्षते स्म ॥ २४ ॥

निशम्य निर्वातविभीषणानि
दिगन्तदन्तावलचूंहितानि ।
स गन्धशैलं प्रहतमुचै
थैलोक्यसिंह 2शिखं नृसिंहः ॥ २५ ॥

स मानसे वीक्ष्य सुरद्वपेन्द्रं
3करेणुविश्राणितपद्मनाम्।
4निजप्रियाप्रेमरसान्विभाव्य
चिन्ताविषदस्तिमितोऽवतस्थे ॥ २६ ॥


1. नरेन्द्रसानरि’त मातृ । 2. शिशुनृसंहः इति मातृक । 3. क्रमेण इति
मातृ । 4. निजं प्रियप्रेमरसाविमाव्य इति मातृ ।