पृष्ठम्:कादम्बरीकथासारः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

vi

अमुमेव बाणाभिहितमभिनन्दः ‘पृष्ट्वा सुखादिकम् ’इत्येतावता निरदिक्षत् । त्रिविक्रमस्तु :--

"वैशम्पायनमुद्दिश्य राजा वचनमब्रवीत् ।
अभ्यन्तरेप्वभिमतं कश्चिदास्वादितं त्वया ।"

त्रिवि. का. क. सा. I. ५९-६०,

इत्याह । अत्रापि त्रिविक्रमो यथापूर्वं बाणप्रयुक्तमेव पदजातमुपादाय श्रवणपेयं छंन्दसा निबबन्धेति पाठकसहृदयैः स्पष्टमवगम्यते । न चैतावन्मात्रम् । विहङ्गमप्रत्युत्तरसन्दमैऽपि ः


 "स प्रत्युवाच 'देव! किं वा नास्वादितम् ; आमत्तकोकिललोचनच्छ

विर्नीलपाटल कषायमधुरः प्रकाममापीतो जम्बूफलरस; हरि

नखरभिन्नमतमातङ्गकुम्भमुक्तरक्तार्द्धमुक्ताफलत्विषि खण्डितानि दाडि मबीजानि ; नलिनीदल्हरिन्ति द्राक्षाफलम्वादूनि च चूर्णितानि स्वेच्छया प्राचीनामलकीफलानि ; किं वा प्रलपितेन बहुना ? सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते " इति ।

का. पृ. ३६.

अत्र त्रिविक्रम :--

     “ एवं वदन्तं नृपतिं प्रत्युवाच विहङ्गमः ॥
             किं वा नास्वादितं देव! नितरां नीलपाटलः ।
              कषायमधुरः पीतो जम्बूफलरसो मया ॥
            मृगेन्द्रभिन्नमाताङ्गकुम्भमुक्तासमानि च ।
            पक्कदाडिमबीजानि खण्डितानि मया विभो!
             तुल्यानि नलिनीपतैः खदंशि स्वेच्छया भया।
         दलितानि महीपाल! प्राचीनामलकानि च ।