पृष्ठम्:कादम्बरीकथासारः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
श्री त्रिविक्रमविरचितः


पश्यति प्रियतमे कृशोदरी
नाभिदेशमुपदेशपूर्वकम्
कानि कानिचन लज्जया क्षणं
1प्रेमनम्नवदना चकर सा ॥ ११२ ॥

विप्रयोगविरसा मुहुर्मुहुः
संगमस्मरणमात्रनिवृता ।
प्रीतिरेवमुभयोः समेधतां
चक्रयोः प्रणयनन्नयोरिव ।। ११३ ॥

इङ्गिताकृतिविशेषवेदिनि
प्रेमशालिनि गुणानुरागिणि ।
एवमुक्तवति तत्सखीजने
प्रत्युवाच नृपनन्दनः प्रियाम् ।। ११४ ॥

दर्शनात्मभृति देवि ! केवलं
2नूनमस्मि परितप्तमानसः।
आभिरत्र तु बहूक्तिभिः कृतः
जीविते विवरवानयं जनः ॥ ११५ ॥

क्षणमपि च निषण्णा तत्र सन्यज्य कान्तं
विरसतसखी 3वाकप्रेरिता निर्ययौ सा ।
अभिमतमदगन्धं कर्णतालप्रनुन
4द्विरदपतिकपोलं दुःखिता षट्पदीव ॥ ११६ ॥


1. शाबिनस्र इति मातृका ।
2. नाहमस्मि विपरीत इति मातृका ।
3. सखीबार्क इति मातृका ।
4. द्विरदवति इति मातृका ।