एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०९
कादम्बरीकथासारः
आरुरोह मणिसेधमङ्गना
मेघवृन्दमिव चन्द्रमः ॥ १०६ ॥
तत्र वीक्ष्य नरपालनन्दनं
प्रेमनिश्चलनिबद्धलोचनम् ।
पादुकं मणिमयीं विसृज्य सा
साध्वसेन शनकैरुपागतम् ॥ १०७ ॥
तां विलोक्य तरुणीं नरेश्वरः
कामबाणपरिभूनमानसः।
वारिधौ निपतिन यहच्छया
1प्राप्य नावमिव किञ्चिदश्वसत् ॥ १०८ ॥
उत्थितेन नरपालसूनुना
प्रेमपूर्वमुपनीतमासनम् ।
पाणिना मुखरकङ्कणेन स।
सन्निरुध्य निषसाद भूतले ॥ १०९ ॥
लोलकुन्तलमधीरलोचनं
मञ्जुवाणि मधुरमितोदरम् ।
अच्छगन्थमरुणधरं नृप
धनुषा प्रियतमामुखं पपौ ॥ २१० ॥
चन्दन मुरभि माल्यमुज्ज्वल
पीठिकां च घनसारमिश्रिताम् ।
गृहनी परिजनास्वयं वधूः
कामिने प्रणयपूर्वमर्पयत् ॥ १११ ॥
1. प्रप्तनवमिव ति मातृ ।