एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०७
कादम्बरीकथासारः
सर्वेषां रलजातानां शेषत्वाच्छेषवाचकः ।
समुद्रमथनोपन हारः कौस्तुभसदः ।। ९३ ।।
वरुणयाब्धिमा दत्त: तेन चित्ररथाय च ।
कादम्बर्यं पुनस्तेन तया तुभ्यं प्रदीयते ॥ ९१ ॥
सत्यमेवामुना भीरुः स्नेहव्यतिकरेण सा।
कृतापराधमात्मान मन्यते मदीरेक्षणा ॥ ९५ ॥
इत्युक्ता रोचिषा स्वेन लिपन्तमिव रोदसी ।
कीर्तिबीजमिवामुष्य हारं सा प्रत्यपादयत् ॥ ९६ ॥
कादम्बरीं ततः प्राप्ता मदलेखा नृपात्मजात् ।
दशात्यये शशिकला प्रतीचीमिव भास्वतः ॥ ९७ ॥
अश्यदंशुक्लयो विशांपति-
वीक्ष्य चित्ररथनान्दिनीमिव ।
रागबन्धमपरां दिगनां
प्राप्य भानुरपि तत्क्षणं ययौ ॥ ९८ ॥
चक्रवाकमक्लोषय सस्पृहं
प्रेयसीविरहविहलो मुहुः ।
अस्तभूधरगभस्तिमालिनो-
रन्तराममिमीत चक्षुषा ॥ ९९ ॥
राजसूनुरिव रागवात्रवि-
शम्बरारिशरणतशक्तिः ।
द्रष्टुकाम इव पाथसां निधौ
मजति स्म वरुणालयानाम् ॥ १०० ॥