अत्रान्तरे कुमारोऽपि मणिसौधाद्विनिर्ययौ ।
उचानमुटुको द्रष्टुं मेघादिव दिवाकरः ॥ ८३ ॥
कुमुद्धतीव शीतांशु पझिनीवांशुमालिनम् ।
सा तं विकस्वरमुखं दृष्ट्वा मोदमुपागमत् ॥ ८४ ॥
1अनुभूतिमिव प्राज्ञ उन्मत्त इव चेतनाम् ।
वेल्थमिवाब्धिपतितो दृष्टा तां मुमुदे नृपः ॥ ८५ ॥
दूरस्थितावपि स्नेहातौ परस्परमुन्मुखौ ।
नयनाम्बुजनाभ्यां प्राप्तमपिबतां रसम् ॥ ८६ ॥
तयोरेकात्मनोः प्रेम्णा निरुद्धाशेषकर्मणोः ।
सर्वेन्द्रियाणि शून्यानि चक्षुषी प्रविशन्निव ॥ ८७ ॥
दौवारिकीविनिर्दिष्टा महाश्वेताऽगताऽथ सा ।
मनोरथादिव भ्रष्टा मञ्चान्मन्दमवातरत् ॥ ८८ ॥
सखीजनस्य वचसा चक्रे सा स्नानभोजनम् ।
हुक्रूरेणेव कवलं करिणीव निषादिनः ॥ ८९ ॥
स्नातानुलिप्तो भुक्ता च सार्ध केयूरकेण सः।
उद्यनभूमिमविशद्वसन्तेनेव मन्मथः ॥ ९० ॥
मदलेखां नृपोऽपश्यत्कन्यकावृन्दसंवृताम् ।
ता2रकजनसीर्णा नक्तं चन्द्रयमिव ॥ ९१ ॥
मधुरं मधुराकारा मदलेखा मदालसा ।
आजानुबाहुमाचख्यैौ राजानं रचिताञ्जलिः ॥ ९२ ॥
1. अनुभूतीमन प्राज्ञा इति मातृ ।
2. रजनसतामिति मातृका ।