पृष्ठम्:कादम्बरीकथासारः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

v

कञ्चुकी राजानं व्यज्ञापयत् देव! देव्यो विज्ञापयन्ति देवादेशादेष वैशम्पायनः स्त्रातः कृताहारश्च देवपादमूलं प्रतीहार्या नीतः ’ इति

अमिधाय गते च तस्मिन् ।

का. पृ. ३२-३६

 अत्र प्रतीहार्या शुक आनीत इति स च शुकः कञ्चुकिना अनुगम्यत इति च स्पष्टमवगम्यते । कञ्चुकिमुखादभिघीयमानदेवीविज्ञापनेऽपि प्रतीहार्या शुक आनीत इति ज्ञायते । अन्यः कञ्चुकी सौविदल्लापराभिधानः अन्या च प्रतीहारी । तदेवं स्थिते अमुमर्थमभिनन्दः--

" तं च कञ्चुकिनानीतमादौ पृष्ट्वा सुखादिकम् ।
पप्रच्छ कौतुकाक्षिप्तः तद्वृत्तान्तमनन्तरम्"

अभि. का. क. सा I, ४९.

 एवं संगृह्मन् न सहृदयहृदयचमत्कारमादधाति । अपि तु स्वकीयाम- समर्थतामेव प्रकटयति । त्त्रिविक्रमस्तु :--

“ तस्यां गतायां विहगं विन्यस्य नृपतेः पुरः ।
ततो बद्धाञ्जलिः कश्चित्कञ्चुकी नृपमब्रवीत् ॥
देव! विज्ञापयन्ति त्वां देव्योऽयं विहगोत्तमः।
स्नानपूर्वं कृताहारः प्रेषितश्च त्वदाज्ञया ।
इत्युक्त्वा निर्गते तस्मिन् तद्वार्ताश्रवणादरात् ।

त्रिवि. का. क. सा. I. ५७-५८.

 बाणाशयं यथावदनुवदन् सहृदयहृदयमाहादयति परेषामाशयस्य यथा बदनुवदनपाटवं च प्रख्यापयति । अन्यच्च :--

" राजा वैशम्पायनमपृच्छत् कच्चिदभिमतमास्वादितमभ्यन्तरे भक्ता
किंचिदशनजातम् " इति ।

का. पृ. ३६.