पृष्ठम्:कादम्बरीकथासारः.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
श्री त्रिविक्रमविरचितः


पुरस्कृत्य स तां कन्यामविशकन्यकापुरम् ।
दुष्प्रवेशे बुधः शास्त्रं प्रतिभां निर्मलमिव ॥ २२ ॥

सोऽपश्यकन्यकां लज्जमादधानां रतेरपि ।
के 1यूरकं तां पृच्छन्तीं मुहुरात्मगुणदयान् ॥ २३ ॥

प्लुष्टस्य हरनेत्रेण सख्युः सञ्जीवनेच्छया।
सम्पादितां वसन्तेन मृतसञ्जीविनीमिव ॥ २४ ॥

शृङ्गारमूलकन्दस्य जयिनः पुष्पधन्वनः।
संमोहनायुधस्येव प्रत्यक्षामधिदेवताम् ॥ २५ ॥

चलत्तरङ्गभ्रूभङ्गां स्फुटद्वन्द्वचरस्तनीम् ।
आवर्तनाभिकुहरां कान्तिसिन्धुमिवापराम् ॥ २६ ॥

तस्याः कुरङ्गशावाक्ष्या नेलासेचनकं वपुः ।
निध्याय प्रमनाः कर्म पुनरेवमतर्कयत् ॥ २७ ॥

अवदातं कृतं कर्म किमनेनाद्य चक्षुषा।
पश्यामि 2दुर्लभं लोके येन दिव्यमिदं वपुः ॥ २८ ॥

अपारामृतसिन्धुः किं स्थेयसी किं तटिलता ।
मदिरा किं दृशा पेया ज्योत्स्ना किमियमक्षया ॥ २९ ॥

कामस्य सायकः षष्ठः कृतान्तस्यान्यदायुधम् ।
मधुरः कालकूटः किं केयं गन्धर्वमुन्दरी ॥ ३० ॥

उपना किमियं बाला लक्ष्मीर्मधुमयावुधेः ।
माधुर्यादत एवाशु मृदयस्यात्मनो मनः ॥ ३१ ॥


1. केयूरकान्तां इतीि मनु । 2. दुर्बलमिति मातृषा ।


नेत्रासेचनकं नयनयोरयन्ततृप्तिकरम् ।
"तदासेचनकं तृक्षे नास्यतो यस्य दर्शनात् ।।"