पृष्ठम्:कादम्बरीकथासारः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
श्री त्रिविक्रमविरचितः

दशमः सर्गः


महाश्वेतां तरलिका ततः केयूरकान्विता ।
सन्मन्त्रानुगता नीतिनृपश्रियमिवासदत् ॥ १ ॥

प्रणम्य सा महाश्वेतां चन्द्रापीड सविस्मयम् ।
अनुग्रहाय संप्राप्तं तस्याः काममिवैक्षत ॥ २ ॥

पदंशकरीराहो नत्वा केयूरकोऽपि ताम् ।
चन्द्रकान्तशिलापट्टे चन्द्र मृग इवासदत् ।। ३ ॥

कच्चिचित्ररथो राजा कुशली कुशलप्रणीः ?
कच्चित्कुशलिनी देवी मदिरा मदिरेक्षणा ? ॥ ४ ॥

कदम्बरी कुशलिनी कच्चिप्रियसखी मम ?
इति पृष्टा तया बाला सर्वेषां वार्तमब्रवीत् ॥ ५ ॥

किन्तु यत्कथितं कार्यं कदम्बर्यं प्रशंसितुम् ।
विमाह तत्र सा चेति सेयं प्रपच्छ तां पुनः ॥ ६ ॥

यस्तय प्रेषितः स्नेहात्सन्देश इव मूर्तिमान् ।
स एष कथयेत्सर्वमित्युक्तो विरराम सा ॥ ७ ॥

स्वामिनी मद्रैिव त्वां कुशलं परिपृच्छति ।
मयूरकेकया तप्त मही कादम्बिनीमिव ॥ ८ ॥

यत्सन्दिष्टं प्रियसखि ! त्वया तरलिकामुखात् ।
तर्कि गुरुजने निन्दा किं वा स्वातन्त्र्यमात्मनः ॥ ९ ॥

आवयोरेकमायुधेज्ज्योतिः काकदृशोरिव ।
तव दुःखं यदुत्पन्नं तत्कथं न भवेन्मम ॥ १० ॥